________________
समाप्तिसूत्रकाण्डम.
अत्राह
श्लोकोक्तसर्वगोत्राणां कोटिसयात्रयं श्रुतम् । पठितानां त्वसंपूर्ण सहस्त्रत्रयमञ्जसा ॥ उनपञ्चाशदेवेति प्रवराश्चावधारिताः । अधिकाश्चापि पठ्यन्ते केचित्कात्यायनादिभिः ॥ व्यामोहयन्ति नस्सर्वे गुरवश्शरणं गतान् । आचार्यवचनं सिद्धं प्रमाणं वेदवाक्यवत् ॥ तस्मात्तदर्थसिद्धयर्थ गोत्रसङ्ख्या निरूप्यताम् ।
अत्र ब्रूमः---इह सर्वे प्रवराचार्याः सर्वेषु गोत्रगणेषु गोत्रगणाननुक्रम्येतिशब्दमन्ते प्रयुञ्जते ‘इत्येते वत्साः' 'इत्येते आष्टिघेणाः' ' इत्येतेषामविवाहः' इति च । तत्रेतिशब्दस्य इत्थंशब्दपर्यायत्वादधिकशब्दाच्चायमर्थो गम्यते-एवमादयो वत्साः एवमादयः आटिपेणाः, एवमादीनामविवाह इति, अन्यथेतिशब्दानर्थक्यात् । भरद्वाजगणे कतिचिगोत्रभेदाननुक्रम्य 'ये चान्ये स्तम्बस्तम्भशब्दाः' इति ब्रुवन् बोधायनोऽनुक्तानपि गोत्रभेदान् दर्शयन्नात्मीयश्लोकोक्तां गोत्रसङ्गयां पूरयति । तथाऽऽपस्तम्बोपि तस्मिन्नेव भरद्वाजगणे कानचिद्गोत्राण्यनुक्रम्य प्रवरं च तेषामुक्ता 'सर्वेषां स्तम्बशब्दानां एष प्रवरः' इति ब्रुवन् तामेव सङ्कयां पूरयति । तथा-कात्यायनोपि कतिचिद्गोत्राण्यनुक्रम्य 'ये चान्ये तच्छब्दाः' इति ब्रुवन् अकथितान्यपि गोत्राणि दर्शयति । तस्मात्पूर्वेष्वेव गोत्रगणेषु श्लोकोक्तगोत्राण्यपि कोटित्रयसङ्ग्यानेनान्तर्भूतानि पश्यन् तेषां दुर्गेयताविवक्षया 'गोत्राणां तु सहस्राणि ' इति गोत्रसङ्कयामुपदिष्टवानाचार्यः । उनपञ्चाशदेवेति स्वपाठाभिप्रायेण व्याख्येयम् । ऋषिदर्शनादित्युभयत्रापि हेतुः । पूर्वत्रानुक्तानां एतावत्सङ्ख्याकानां -