________________
૧૪૧
समाप्तिसूत्रकाण्डम्
विश्वामित्रगोत्राणि वयं वसिष्ठगोत्राणि वयं इत्येव व्यवहारस्स्यात् । श्रुतिलिङ्गमप्येवमेव दृश्यते— गौतमस्सत्यकामं ष्टच्छति 'किंगोत्रो - सि सौम्य' इति । उत्तरमपि — ' नाहमेतद्वेद तात यगोत्रोह - मस्मि ' इति । पूर्वव्याख्याने तु कस्य गोत्रं त्वमसीति प्रश्नस्स्यात् । उत्तरमपि — नाहमेतद्वेद तात यस्य गोत्रमहमस्मीति स्यात् । तस्मादिदमेव गोत्रलक्षणं शोभनम् । तथाऽभियुक्तव्यवहारोपि दृश्यते— 'गोत्रं च तेजसां भानुस्सिन्धुवत्सकलानां लवणानाम्" इति ॥ अत्र ब्रूमः — बोधायनमतानभिज्ञस्येदं चोद्यम् । कथम् ? ' गोत्राणां तु सहस्त्राणि ' इत्यधस्तने लोके गोत्राणि कोटित्रयसंख्या युक्तान्युक्ता कानि तानि गोत्राणीत्यपेक्षायां विश्वामित्रो जमदग्निरित्यादिना विश्वामित्रादीन्यगस्त्यान्तान्यष्टौ गोत्राणीत्युक्ते पूर्वापरविरोधादसंगतं स्यात् । अस्मदीये पुनः पक्षे नास्ति कश्चिद्दोषः । लोकव्यवहारश्श्रुतिलिङ्गन्चोभयमपि गोत्रशब्दस्योभयलिङ्गत्वादविरुद्धं पुत्रशब्दवत् । यथा च वसिष्ठस्य पुत्रः कुण्डिनः, तथा वसिष्ठस्य गोत्रः कुण्डिन इति । यदेतत्पाणिनीयं गोत्रलक्षणं " अपत्यं पौत्रप्रभृति गोत्रम्" इति तदप्यगस्त्याष्टमसप्तर्ण्यपत्यविषयमेवेति द्रष्टव्यम् । तस्य सामान्यत्वाद्बोधायनीयगोत्रलक्षणस्य विशेषत्वात्सामान्यविशेषयोश्च गोबलीवर्दन्यायेन एकगोत्रोपसंहारो न्याय्यः । इतरथा चाण्डालाद्यपत्यमपि गोत्रं प्रसज्यत इत्यतिव्याप्तिदोषस्स्यात् । उपसंहारे च न दोषः । तस्माद्बोधायनीयमेव गोत्रलक्षणं 'अगस्त्याष्टमानां यदपत्यं तद्गोत्रं ' इति ॥ अत्रापीदं चिन्त्यं - किमिदं गोत्रलक्षणं अगस्त्याष्टमसप्तर्ण्यपत्यमात्रविषयम् ? उत स्विटपिविषयमेव ग्राह्यं अगस्त्याष्टमसप्तर्षीणां यदपत्यमृषित्वंप्राप्तं तद्गोत्रमिति । तत्रापत्यमात्रविषयत्वे सति तद - पत्यसन्ततिजातानामृषीणामनुषीणां च भूतभविष्यवर्तमानानां च संख्यातीतत्वात् 'गोत्राणां तु सहस्राणि' इतिश्लोकोक्तगोत्र संख्या बाध्येत, 1 सकलानां वरणां [ ? ]