________________
१३८
प्रवरमञ्जरी.
मतमिहापि स्मारयति । यदुक्तं पूर्वं – भृग्वङ्गिरसो भिन्नविवाहं कुर्वते न चेत्समानार्षेया बहवस्स्युरिति मतं बोधायनस्य इति तदिहापि स्मारयति । सप्तर्ण्यपत्यबाह्यानां केवलभृग्वङ्गिरसामेव समानप्रवरतया विवाहप्रतिषेधः, न सप्तर्ण्यपत्यानाम्, तेषां समानगोत्रत्वादेवाविवाहसिद्धेः प्रतिषेधानर्थक्यप्रसङ्गादिति । बोधायनग्रहणमुक्तप्रयोजनम् । यत्तु बोधायनमतं तन्मानुषीभिस्सर्वाभिः प्रजाभिः प्रमाणमेव कर्तव्यम् । कुत इति चेत् — मनुतुल्यत्वाद्बोधायनस्य । मनुमतं च मानवीभिः प्रजाभिरनुष्ठेयम् । कुत इत्यत्र हेतुमाह — मानव्यो हि प्रजा इति च विज्ञायत इति । एवं विज्ञायते श्रूयते तैत्तिरी - यश्रुतौ अग्निप्रकरणे “शिवो भव प्रजाभ्य इत्याह प्रजाभ्य एवैनं शमयति मानुषीभ्यस्त्वमङ्गिर इत्याह मानव्यो हि प्रजा मा द्यावाष्टथिवी अभि शूशुचो माडन्तरिक्षं मा वनस्पतीनित्या हैभ्य एवैनं लोकेभ्यश्शमयति " * इति । गोत्राणां तु सहस्राणीत्यनेन गोत्र - सङ्ख्यामाह तेषामतिदुर्ज्ञेयतां तारकाणां भूषांसूनामिव दर्शयितुम् । कीटशी पुनरियं सङ्ख्या ? उच्यते — सहस्राणीत्यत्र बहुवचनात् त्र्युत्तराणि सहस्राणि प्रतीमः । उपरि तु न जानीमः । तथा प्रयुतान्यर्बुदानीत्यत्रापि त्र्यवराण्यर्बुदानि प्रतीमः । तत्र सहस्त्र दशगुणितं अयुतं, अयुतं दशगुणितं नियुतं नियुतं दशगुणितं प्रयुतं, प्रयुतं दशगुणितमर्बुदमित्युच्यते । तत्र सहस्त्रप्रयुतार्बुदेषु त्रिष्ववि त्रिगुणितेषु कृतेषु 'गोत्राणां तिस्रः कोटिसङचारसंपद्यन्ते, यदि तु बहुवचनानि त्रीणि त्रिसङ्ख्यायामेव पर्यवसितानि । यदा पुनरधिकान्यपि गोत्राणि विषयीकुर्वन्ति तदा कियन्त्यः कोटिस या गोत्राणामिति न विद्मः । तत्र कथमेतावतां गोत्राणां परस्परं विवेकश्श क्योवगन्तुमित्यभिप्रायः ॥
ख
*तै. सं. ५-१-५.
त्रिगुणीकृतेषु.