________________
समाप्तिसूत्रकाण्डम्.
१३७ प्रवरे सन्तिष्ठन्ते । नित्यं पर्वणि स्वाध्याये ब्रह्मलोके महीयत इति ॥
इति बोधायनोक्तो महाप्रवराध्यायः ॥
समानगोत्रामित्यत्र समानप्रवरां चेति द्रष्टव्यम्, उभयोः प्रतिषेधाविशेषात् । चान्द्रायणमित्यत्रापि प्रतिगमनं चान्द्रायणमिति द्रष्टव्यम्, पुष्कलनिमित्तसद्भावात् । ब्राह्मणी न त्यनेदित्यनेन दोषदुष्टतया प्राप्तत्यागप्रतिषेधः । मातृवद्भगिनीवदित्यत्रापि सहशयनमैथुनादिभावे च मातृभगिनीगमनतुल्यदोषप्रायश्चित्तादिभाक्तं विवक्षितम् । गर्भो न दुष्यतीत्यत्र अबुद्धिपूर्वकृतगर्भो विवक्षितः । बुद्धिपूर्वगमनजनितस्य गर्भस्य चाण्डालत्वस्मृतेः
आरूढपतितापत्यं ब्राह्मण्यां यश्च शूद्रनः । ___ सगोत्रोढासुतश्चैव चाण्डालास्त्रय ईरिताः ॥ इति ॥
कश्यप इति विज्ञायते इति ॥ अस्यायमर्थः-स गर्भस्सगोत्रायामुत्पन्नोपि तदन्यगोत्रेऽपि गोत्रतः कश्यपो भवतीति विज्ञायते श्रूयते शाखान्तरे । ततश्श्रुतिप्रामाण्यादन्यगोत्रस्यापत्यमन्यगोत्रं भवतीत्यवगन्तव्यमित्यभिप्रायः । सन्निपाते विवाहं तदध्यायैर्वर्जयेत् बोधायनस्य तत्प्रमाणं हि कर्तव्यं मानव्यो हि प्रजा इति विज्ञायते इत्यनेन सूत्रेण समानगोत्राणामिव समानप्रवराणामपि अविवाहानामुक्तत्वादवक्तव्यत्वाद्वक्तव्यस्यायमर्थः-वत्सादीनां यज्ञवाहान्तानां एकोनपञ्चाशदध्यायसूत्रेषु प्रत्यध्यायं च उक्तेषु गोत्रगणेषु प्रवरेषु सत्सु यावतां गोत्रगणानामेकस्मिन्नध्याये सन्निपातस्सहपाठः तावतां गोत्राणामन्यतमगोत्रविशेषः पुरुषः तदध्यायैर्विवाहं तदध्यायपठितैस्सह विवाहं वर्जयेत् समानप्रवरत्वादित्यर्थः । बोधायनस्य मतमिति चेदं पूर्वोक्तं
18