________________
प्रवरमञ्जरी. हि यस्मादेवं तैत्तिरीयाणां ब्राह्मणं प्रत्यक्षमेव पठचते "मानव्यो हि प्रजाः” इति । जातः सामर्थ्यमर्थित्वं शास्त्रापर्युदासश्च येषां ते त्रैवर्णिकाः प्रजाशब्देनोच्यन्ते । द्विरुक्तिरध्यायपरिसमाप्तिद्योतनाथ मङ्गलार्थ वा ॥
आहतुः कात्यानयनलौगाक्षी
अपि हैके मानवेति मनुवदित्येकैकमार्षेयं सार्ववर्णिकं प्रवृणीते । कस्य हेतोरिति । मानव्यो हि प्रजा इति । तदेतन्नोपपद्यते । न देवैर्न मनुष्यैरा
यं प्रवृणीते । तदेतदन्यत्र ब्राह्मणक्षत्रियाभ्यामितरासां प्रजानामुक्तं भवतीति ॥
व्याख्यातमेतदेव सूत्रमादौ परिभाषाकाण्डे ॥ तथा-दर्शपूर्णमा . सप्रकरणे चापस्तम्बः-प्रतिवर्ण प्रवरविशेषान् प्रवरदोषं चोक्ता पश्वादिदमाह-' अपि वा नोर्षयं वृणीते मनुवदित्येवं ब्रूयात् ' इति ॥ अत्र हि मानवे प्रवरकाण्डे सूत्रकाराणामभिप्रायाः पूर्वापरविरोधात्परस्पविरोधाश्चात्यन्तदुरवबोधा इवावभान्ति । कथमिति चेत्--- बोधायनेन तावदिमं सार्वणिकं प्रवरमुक्ता न प्रतिषिद्धो वैशिकः प्रवरः । कात्यायनादिभिस्सार्ववर्णिकं प्रवरं दूषयित्वा वैश्यविषयत्वेनोक्तस्सः । आपस्तम्बाद्यैस्तु दर्शपूर्णमासयोरिह वैशेषिकप्रवरानुक्ताऽन्ते सार्ववर्णिकं प्रवरमुक्ता न प्रतिषिद्ध इति । पूर्वापरविरोधाच्च भवति बहुविदां व्यामोहः । अतो दुरवबोधो गोत्रसूत्रकाराणामभिप्राय इति । अपि च सार्ववर्णिके प्रवरेऽभ्युपगम्यमाने सति सर्वेषां वर्णानां समानप्रवरत्वाद्विवाहासंभवाद्वर्णसङ्करप्रसङ्गान्मूलोच्छेदः प्रसज्यते ॥ अत्र सूत्रकाराणामभिप्रायविदः . परिहरन्ति-यदेतदाप