________________
समाप्तिसूत्रकाण्डम्. स्तम्बाद्युक्तं प्रतिवर्ण प्रवरप्रतिषेधपरं न भवति । किपरं तर्हि ? वक्ष्यमाणसार्ववर्णिकप्रवरस्तुतिपरम् । कथम् ? . प्रतिवर्णमुक्ताः प्रवरा दुर्जेयाः बहुप्रयासलभ्याश्च, तस्मान्न कार्याः अयं तु वक्ष्यमाणो लघुतरप्रयत्नलभ्यत्वात्कर्तव्य इति स्तुतिः । कथं पुनरयमभिप्रायोवगम्यत इति चेत्-अन्यथा प्रवराध्यायानारम्भप्रसङ्गात् । आरब्धश्च । यत्तु कात्यायनोक्तं एकापेयप्रवरप्रतिषेधनं तत्प्रतिषेधनपरं न भवति । किं तर्हि ? वर्णद्वयव्युदासेन सार्ववर्णिकप्रवरस्य वैश्यविषयत्वोपदेशपरम्, 'तदेतदन्यत्र ब्राह्मणक्षत्रियाभ्यामितरासां प्रजानामुक्तं भवति' इति वाक्यशेषात् । यत्पुनरेतदुक्तं सार्ववर्णिकप्रवरपक्षे समानगोत्रत्वाद्विवाहाद्यनुपपत्तिरिति । तत्रापि ब्रूमः-योयं समानप्रवरैस्सहप्रतिषेधः सोसौ वैश्यप्रवरविषयत्वेन व्याख्येयः । सार्ववर्णिकप्रवरपक्षे तस्यावर्जनीयत्वादेकदेशक्षाम वत् । वैश्शविषय एवायमेकायो मानवः प्रवरश्चोक्तः । अत्र श्लोकः--
त्रैवर्णिकानां प्रवरे समानेऽप्यस्मिन्नमीषां भविता विवाहः । एकैकवर्णप्रवरस्य सत्त्वात्तत्राविवाहः प्रतिषेधवाचा ॥ इति पुरुषोत्तमपण्डितविरचितायां गोत्रप्रवरमञ्जर्यां
सार्ववर्णिकप्रवरकाण्डं समाप्तम्.
वैशेषिकप्रवरगोत्रविदां च मुक्तिं तेभ्यो बहिस्स्थितवतामधमां गतिं च। गोत्रस्वरूपमपि गोत्रवतां च संख्यां गोत्रस्वरूपविदुषामतिशायनं च॥ ईशप्रणामगुरुभक्तिगुरुप्रणामन्यायं च गोत्रगणपाठफलं च मुक्तिम् ।
- मतियोग्यतां च ..