________________
सार्ववार्णकप्रवरकाण्डम्, स्मृत्यन्तरं च मातृगोत्रविवाहप्रतिषेधकं दृष्ट्वाऽपि संशयवतामाचारमात्राद्व्यामोहमूलतया सम्भाव्यमानात्कथमिव संशयापनोदः । तस्मात् पितृगोत्रवन्मातृगोत्रेऽप्यविवाह एवेति ॥
व्याख्यतमिदमपि काण्डम्. अत्र श्लोकौ भवतः
पित्रोईयोस्समानत्वादपत्यानां द्वयोरपि ।
गोत्रयोर्न विवाहोस्ति प्रतिषेधस्मृतेरपि ॥ दूषितो बहुभिश्शिष्टैरिष्टोन्यैः कैश्चिदेव सः । संभाव्यमानदोषत्वाद्वर्जनीयो द्वयोरपि ।।
इति पुरुषोत्तमपण्डितविरचितायां गोत्रप्रवरमार्यां मातृगात्रविवाहप्रतिषेधकाण्डं समाप्तम्.
एकैकवर्णप्रवरोपदेशात्परं त्रिवर्णप्रवरं प्रवक्ष्ये । विवाहमेषां प्रवरे समानेऽप्यवर्जनीयत्वकृतं च वक्ष्ये ॥ अत्राह बोधायनःमनुवदिति सर्वेषां गोत्राणम् । 'मानव्यो हि प्रजा इति च विज्ञायते' । इति । आहुरापस्तम्बादयः
अथ ताण्डिन एकार्षेयं सावर्णिकं समामनन्ति । मानवेति होता मनुवदित्यध्वर्युः । मानव्यो हि प्रजा इति हि ब्राह्मणमिति हि ब्राह्मणमिति ॥