________________
८५
अत्रिकाण्डम्. सैत्रेयश्चैव सौधेय स्ठ्यार्षेयाः परिकीर्तिताः ॥ . अत्रिश्च वामरथ्यश्च पौत्रिश्चैव महानषिः । परस्परमवैवाह्या ऋषयः परिकीर्तिताः ॥ इत्यत्रिवंशप्रभवास्तवोक्ता
महानुभावा नृप गोत्रकाराः। येषां तु नाम्नां परिकीर्तनेन
पापं समग्रं पुरुषो जहाति ॥ इति मत्स्यपुराणोक्ते प्रवराध्याये अत्रिवंशानुवर्णनं नामाध्यायः.
-
-
एतेषामत्रिगोत्राणां गणानां पिरस्परमविवाहः । समानगोत्रत्वात् ॥ समानगोत्रत्वं च सप्तर्षरत्रेस्सर्वेषु त्रिप्रवरेषु प्रवरणात् । द्वयायसन्निपाताच्च । पुत्रिकापुत्राणामुभयोर्गोत्रयोरविवाहः, स्वस्वगणे च सुतरामविवाहः, समानप्रवरत्वाद्वचनाच्चेति । व्याख्यातान्यत्रिगोत्रकाण्डानि समाप्तानि ॥ अत्र श्लोकः
समानमुनिबाहुळ्यात्सगोत्रत्वाच्च नात्रयः । विवाहं कुर्व तेऽन्योन्यं नोभयोरपि पौत्रिकाः ॥ इति पुरुषोत्तमपण्डितविरचितायां प्रवरमञ्जर्स
अत्रिगोत्रप्रवरकाण्डं व्याख्यातम्.
-
-
*सवालेयो वामदथ्यस्तथैव च । सौश्रेयश्च वसौत्रेया. एतेषामत्रिगोत्रजानां.