SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ बृहत्कल्पसूत्रे पणं भवेत् तद् 'आगेरी' इति मुनिभाषाप्रसिद्ध तथाविधं परिभुक्तमपि न कल्पते । तदपि च सलोमचर्म परिभुक्तं प्रातिहारिकं च एकरात्रिकं एकाहोरात्रपर्यन्तमेव कल्पते किन्तु नो चैव खलु अनेकरात्रिकं द्वित्रिचतुरायहोरात्रपर्यन्तं कल्पते अर्शोभगंदर-रोगादिकारणजाते साधुना सलोमचर्म परिभुक्तं प्रातिहारिकमेकरात्रिकम् एकाहोरात्रमर्यादित ग्राह्य, न तदधिकाहोरात्रपर्यन्तमिति भावः । अत्र शङ्कते कश्चित्-यत् निम्रन्थानां सलोमचर्मानुज्ञातं निग्रन्थीनां च तन्निषिद्धं तत् किमत्र कारणम् महाव्रतानां समानत्वात् ? तत्राह-साध्व्यः स्वभावतः कोमलास्ततस्तासां कोमलस्पर्शतः पूर्वभुक्तभोगानां स्मृतिकौतुकादिना बह्मवते शङ्कोत्पत्तिसंभवात् । निर्ग्रन्थानां तदभावादिति । वस्तुतस्तु इदं कारणिकं सूत्रम् , उत्सर्गतस्तु साधूनामपि तन्न कल्पते हिंसानुमोदनदुष्प्रतिलेख्यत्वादिदोषसद्भावादिति ॥ सू० ४ ॥ पूर्व सलोमचर्म साध्वीनां निषिद्धं, साधूनां च तस्य विधिना ग्रहणमनुज्ञातम् , साम्प्रतं चर्मप्रसङ्गात्कृस्नचर्मनिषेधप्रतिपादकं साधुसाध्वीनां समुच्चयसूत्रमाह-नो कप्पइ० कसिणाई चम्माई' इत्यादि। _ सूत्रम्-नो कप्पइ निग्गंथाण वा निग्गंथीण वा कसिणाइ चम्माइं धारित्तए वा परिहरित्तए वा ॥ सू०५॥ छाया–नो कल्पते निग्रन्थानां वा निग्रन्थीनां वा कृत्स्नानि चर्माणि धर्नु वा परिहर्तुं वा ॥ सू० ५॥ चूर्णी-'नो कप्पड़' इति । निम्रन्थानां निम्रन्थीनां द्वयानामपि कृत्स्नानि परिपूर्णानि अखण्डानि वर्णप्रमाणादिभिः प्रतिपूर्णानि चर्माणि धत्तुं पार्श्वे स्थापयितुं परिहत्तुं परिभोक्तुं वा नो कल्पते, अनेनेदमायातम्-यत् खण्डितानि खण्डशः कृतानि वर्गप्रमाणादिभिरपरिपूर्णानि तु निम्रन्थनिम्रन्थीनां कल्पते, इति, अनेन ज्ञायते यथासंभवं साधूनां चर्मण आवश्यकता भवेत् 'प्राप्तौ सत्यां निषेधः' इतिवचनात् , सत्यम् यथासंभवमावश्यकता भवेदपि-सन्धिवातादिकारणे कदाचित् जान्वादौ बन्धयितुं वैद्यादेशो भवेत् तदा तच्चर्म खण्डितमेव ग्राह्यं, नतु परिपूर्णम् । अन्यच्च परिपूर्णचर्म अन्यतोथिंकसाधव उपकरणत्वेन गृह्णन्ति ततस्तादृशे परिपूर्णे चर्मणि गृहीते प्रवचनस्योड्डाहो भवेत् यत् परपाषण्डिवदेतेऽपि मृगव्याघ्रादिचर्म गृह्णन्तीति तस्मात् कृत्स्नचर्म निर्ग्रन्थनिर्ग्रन्थीनां निषिद्धं भगवतेति बोध्यम् ॥ सू० ५ ॥ पूर्व कृत्स्नचर्मग्रहणं साधुसाध्वीनां निषिद्धं किन्तु वातरोगादिकारणे अकृत्स्नचर्मणो यथासंभवमावश्यकता जायते इति चर्मसम्बन्धिकारणिकसूत्रमाह-कप्पइ० अकसिणाणि चम्माई' इत्यादि । सूत्रम्--कप्पइ निग्गंथाण वा निग्गंथीण वा अकसिणाई चम्माइं धारित्तए वा परिहरित्तएवा ॥ सू० ६॥
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy