SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ चूर्णि भाग्यावचूरो उ० १ सू० ३-५ निर्ग्रन्थनिर्ग्रन्थीनां चर्मग्रहणविधिः ५९ वपि शुद्धभङ्गमपेक्ष्य गच्छेत् । अत्रायं विशेषः ग्लाना दिजिज्ञासा वाचनाप्रच्छनादिकारणजाते पुरुष साक्षिपूर्वकं गृहस्थस्त्रीसाक्षिपूर्वकं च द्वितीयया तृतीयया वा साध्या सहिता भूत्वा पूर्वोक्तविधिना यतनया गच्छेदिति भावः । शेषं सर्वं पूर्वसूत्रोक्तवदेव विज्ञेयम् ॥ सू० २ ॥ रक्षणार्थं निर्ग्रन्था निर्ग्रन्ध्यश्च परस्परं स्वान्यतरोपाश्रये न गच्छेयुरिति प्रतिपादि पूर्व तम् एवं ब्रह्मत्रतरक्षणायैव निर्ग्रन्थीभिस्तादृशमुपकरणमपि न प्रतिग्रहीतव्यं येन ब्रह्मव्रते बाधा या - " दिति विभाव्य साध्वीनां सलोमचर्मग्रहणनिषेधं प्रतिपादयन्नाह - 'नो कप्पइ० सलोमाइ' इत्यादि, सूत्रम् - - नो कप्पर निमांथीण सलोमाई चम्माई अहिट्ठित्तए | सू० ३ ॥ छाया - नो कल्पते निर्ग्रन्थीनां सलोमानि चर्माणि अधिष्ठातुम् ॥ सू० ३ ॥ चूर्णी - 'नो कप' इति । निर्ग्रन्थीनां सलोमानि लोमसहितानि चर्माणि मृगादिचर्माणि अधिष्ठातुं तदुपरि उपवेष्टुम् उपवेशनार्थ सरोमचर्माणि उपभोक्तुं नो कल्पते । सलोमचर्मोपरि साध्वीभिर्नोपवेष्टव्यमिति भावः । अनेनायातं निर्लोमचर्माणि साध्वीनां कल्पते इति न, सलोम. निर्लोमचर्मणोर्द्वयोरपि ग्रहणे जीववधतदनुमोदनक्रिया समापयेत । सलोमचर्मोपरि समुपवेशनेन संयमात्मविराधना भवति यथा -- सुकुमाललोमस्पर्शेण मनोविकारादिदुर्भाव संभवात्, लोममध्ये स्थितानां कुन्थुपिपीलिकादीनां दुष्प्रतिलेख्यत्वाच्च संयमविराधना, लोमशुषिरमागे कण्टकवृश्चिकादिनाऽऽत्मविराधना च भवति ॥ सू० ३ ॥ पूर्वं निर्ग्रन्थीनां सलोमचर्मोपरि समुपवेशनं निषिद्धम्, संप्रति निर्ग्रन्थानां तानि कल्पते इति द्विधिं प्रदर्शयति- 'कप्प' इत्यादि । सूत्रम् - कप्पर निम्गंथाणं सलोमाई चम्माई अहिद्वित्तए, सेवि य परिभुत्ते नो चेवणं अपरिभुत्ते, सेवि य पडिहारिए नो चेव णं अपडिहारिए, सेवि य एगराइए नो चेव णं अगराइ ॥ सू० ४ ॥ छाया - कल्पते निर्ग्रन्थानां सलोमानि चर्माणि अधिष्ठातुम्, तदपि च परिभुक्तं नो चैव खलु अपरिभुक्तम्, तदपि च प्रातिहारिकम् नो चैव खलु अप्रातिहारिकम्, तदपि च एकरात्रिक नो चैव खलु अनेकरात्रिकम् ॥ सू० ४ ॥ चूर्णी - ' कप्पड़' इति । कल्पते निर्ग्रन्थानां सलोमानि - लोमसहितानि चर्माणि अधिष्ठातुम्- परिभोक्तम् किन्तु तदपि च सलोमचर्म परिभुक्तं लोहकारादिभिरुपवेशनादिना परिभोगविष यीकृतं कल्पते इति सम्बन्धः, एवमग्रेऽपि बोध्यम् । किन्तु नो चैव खलु अपरिभुक्तं गृहस्थैः पूर्वं न परिभुक्तं चेत्-तन्न कल्पते । तत् परिभुक्तमपि सलोमचर्म प्रातिहारिकं कार्यानन्तरं पुनः प्रत्यावर्त्त - नीयं, 'कार्यानन्तरं पुनः प्रत्यर्पयिष्यामी' -त्युक्त्वा यदानीयते तत् प्रातिहारिकं कथ्यते 'पडिहारी ' इति मुनिभाषा प्रसिद्धं तत्प्रकारकं प्रातिहारिकं कल्पते किन्तु न चैव खलु अप्रातिहारिकं पुनर्न प्रत्य
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy