SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ चूणि-भाष्या-ऽवचूरो उ० ३ सू० ६-८ निर्ग्रन्थनिम्रन्थीनां वस्त्रग्रहणविधिः ६३ छाया—कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा अकृत्स्नानि चर्माणि धर्तुं वा परिहतुं वा ॥ सू०६ ॥ चूर्णी-'कप्पई' इति । निम्रन्थानां निर्ग्रन्थीनां वा अकृत्स्नानि अपरिपूर्णानि खण्डरूपाणि चर्माणि धत्तु परिहत्तं वा कल्पते । पूर्वोक्तसन्धिवातादिकारणे वैद्यादेशेन जान्वादौ बन्धयितुमावश्यकता भवेत्तदा चर्मखण्डं ग्रहीतुं कल्पते नतु कृत्स्नमिति कारणिकसूत्रमिदं बोध्यम् । ननु पूर्वसूत्रे कृत्स्नचर्म निषिद्धं तेनैवाऽऽयातं यत् अकृत्स्नं कल्पते इति तेनास्य सूत्रस्य नैरर्थक्यमुपजायते, अत्राह–सावुसमुदाये नानादेशीयाः प्रकृतिभद्रका विनेया भवन्ति ते जानन्ति यत् भगवता कृत्स्नचर्म निषिद्धं तेन चर्ममात्रं न ग्राह्यम् , एवं सति वातादिकारणे वैद्यादेशो निष्फलो भवेत् वातादिनिवारणं न भवेत् तेन संयमाराधनं दुःशक्यं जायतेऽतो भगवता तेषां स्पष्टबोधार्थमिदं सूत्रमत्रोपन्यस्तं ततो नास्य सूत्रस्य नैरर्थक्यमित्यग्रेऽपि बोध्यम् ॥ सू० ६ ॥ पूर्वसूत्रद्वये कृत्स्नाऽकृत्स्नचर्मग्रहणे विधिनिषेधौ प्रतिपादितौ, साम्प्रतं वस्त्रविषयकं सूत्रमाह'नो कप्पइ० कसिणाई वत्थाई' इत्यादि । सूत्रम्-नो कप्पइ निग्गंथाण वा निग्गंथीण वा कसिणाई वत्थाई धारित्तए वा परिहरित्तए वा। कप्पइ निगंथाण वा निग्गंथीण या अकसिणाई वत्थाई धारित्तए वा परिहरित्तए वा ॥ सू० ७॥ छाया--नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा कृत्स्नानि वस्त्राणि धतु वा परिहर्नु वा, कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा अकृत्स्नानि वस्त्राणि धर्नु वा परिहर्नु वा ॥ सू० ७॥ चूर्णी-'नो कप्पई' इति । निर्ग्रन्यानां निर्ग्रन्थीनां कृत्स्नानि परिपूर्णानि अखण्डानि यथाप्रकाराणि उत्पादनस्थानादागतानि तथाप्रकाराण्येव वस्त्राणि धर्तुं परिहर्तुं वा नो कल्पते, कृत्स्नं चतुर्विधं द्रव्यक्षेत्र कालभावभेदात् , तत्र द्रव्यकृत्स्नं द्विविधं भवति सकल कृत्स्नं प्रमाणकृत्स्नं चेति । तत्र द्रव्यतः सकलकृत्स्नं वस्त्रपर्यन्तगततन्तुसहितं परिपूर्णकोमलस्पर्शयुक्तम् अनुपहतम् अञ्जनखञ्जनादिदोषवर्जितं सदशाकं 'दशा' किनारी,इति प्रसिद्धं तत्सहितं तादृशं वस्त्र द्रव्यतः सकलकृत्स्नं प्रोच्यते, तदपि जघन्यमध्यमोत्कृष्टभेदेन त्रिविधम् , तत्र जघन्यं मुखवस्त्रिकादिकम् , मध्यम चोलपट्टादि,उत्कृष्ट प्रावरणादि, इदं त्रैविध्यमग्रेपि सर्वप्रकारवस्त्रेषु बोध्यम् १, यत्-दैर्ध्यविस्ताराभ्यां यथोक्तप्रमाणतोऽतिरिक्तं तत् द्रव्यतः प्रमाणकृत्स्नम् २, क्षेत्रकृत्स्नं यत् यस्मिन् देशे दुर्लभं वा भवेत् एकदेशनिष्पन्नं वस्त्रमन्यस्मिन् देशे बहुमूल्यं भवति, बहुमुल्यं यथा पूर्वदेशनिष्पन्नं वस्त्रं लाटदेशं प्राप्य बहुमूल्यं भवति २, कालकृस्न-यस्मिन् काले यद् वस्त्रं बहुमूल्यं भवति यथा-ग्रीष्मे सूक्ष्मवस्त्रं, शिशिरे कम्बलादि, बर्षासु कुङ्कुमखचितादि ३, भावकृत्स्नं द्विविधम्-वर्णयुतं मूल्ययुतं च, तत्र वर्णयुतं पञ्चविधं कृष्णादिवर्णभेदात् , मूल्ययुतं त्रिविधम्-जघन्य
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy