SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ५० (१) द्रव्यतः सागारिकः- भावतोऽपि सागारिकः । (२) द्रव्यतः असागारिकः- भावतः सागारिकः । (३) भावतः असागारिकः - द्रव्यतः सागारिकः । (४) द्रव्यतः - असागारिकः- भावतोऽपि असागारिकः । एषु चतुर्षु भङ्गेषु अन्तिमो भङ्गो ग्राह्यः । बृहत्कल्पसूत्रे एवम्भूते सागारिके उपाश्रये वसतां द्वयानां निर्ग्रन्थ-निर्ग्रन्थीनां तद्गतविला सिवस्तुजाता बलोकनेन मनोविकारादिना संयमविराधना, तद्गतवस्तुजातस्य चौर्यादिना च आत्मविराधना संभवे - दिति ॥ सू०२५ ॥ अत्राह भाष्यकारः - 'सागारियवसहीए' इत्यादि । भाष्यम् -- सागारियवसहीए, वसमाणाणं हवंति बहुदोसा । मोहेण पुव्वसरणं, तेणागमणं च तग्गहणे ॥२२॥ छाया - सागारिकवसतौ वसतां भवन्ति बहुदोषाः । मोहेन पूर्वस्मरणं, स्तेनाऽऽगमनं च तद्ग्रहणे ॥२२॥ अवचूरी – 'सागारियत्रसहीए ' इति । सागारिकवसतौ गृहस्थवस्तुजातसहितोपाश्रये वसतां निर्ग्रन्थानां निर्ग्रन्थीनां च बहुदोषाः बहवो दोषाः संयमात्मविराधनारूपा भवन्ति, कथमित्याह- मोहेन तद्गतवस्त्राभूषणपल्यङ्काद्यवलोकनेन पूर्वस्मरणं पूर्वस्य गृहस्थावस्थारूपपूर्वकालस्य स्मरणं भवेत्, यत् - 'ममापि एतादृशानि सुन्दराणि वस्त्राभूषणादीनि आसन्' इत्यादिस्मरणेन संयमविराधना भवेत् । तथा तत् तस्य वस्त्राभूषणादिवस्तुजातस्य ग्रहणे ग्रहणार्थं स्तेनागमनं स्तेनानां चौराणामागमनं भवेत्, तैर्वस्तुजातं चौरितं वा भवेत् तेन साधुसाध्वीविषये गृहस्थस्य शङ्का जायते ततः सः साधु साध्वीं वा राजपुरुषैर्ग्राहयेत् तेन आत्मविराधनासंभवः, तस्माद्धेतोः सागारिकोपाश्रये साधु-साध्वीनां वस्तुं न कल्पते इति भावः ॥ २२॥ पूर्वं सागारिके उपाश्रये साधुसाध्वीभिर्निवासो न कर्त्तव्य इति प्रोक्तम्, सम्प्रति सागारिकरहितोपाश्रये निवासः कल्पते इत्याह- ' कप्पर' इत्यादि । सूत्रम् - कप्पइ निग्गंथाण वा निग्गंथीण वा अप्पसागारिए उबस्सए वत्थए । २६ । छाया -- कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा अल्पसागारिके उपाश्रये वस्तुम् ॥ चूर्णी - 'कप्पड़' इति । निर्ग्रन्थानां निर्ग्रन्थीनाम् अल्पसागारिके, अत्र अल्पशब्दः अभाव1 वाची तेन असागारिके सागारिकं गृहस्थसम्बन्धिवस्त्रभूषणादिवस्तुजातं, तद् यत्र न विद्यते सः अल्पसागारिकः, तस्मिन् गृहस्थसम्बन्धिवस्तुरहिते उपाश्रये वस्तुं कल्पते, तत्र पूर्वोक्तदोषाऽसंद्भावात् ॥ सू० २६॥
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy