SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ वसतिवासविधिः १९ पावचूरो उ० १ सू० २४-२६ छाया - सागारिकनियां यदि अकृत्वा साध्यस्तिष्ठन्ति । प्राप्नुवन्ति आशाभङ्गान् तस्मात् निश्चया वस्तव्यम् ॥२०॥ निश्राकरणे स पुनस्तासां रक्षां करोति दुष्टात् । श्वापदस्तेनादितः, रक्षणमिह भवति तत्कार्यम् ॥२१॥ अवचूरी - 'सागारियणिस्सं' इति सागारिकनिश्रां शय्यातरस्याऽऽलम्बनम् अकृत्वा यदि साध्यः उपाश्रये तिष्ठन्ति तदा आज्ञाभङ्गान् तीर्थकराज्ञाविराधनादिदोषान् प्राप्नुवन्ति । तस्मात् कारणात् साध्वीभिः निश्रया सागारिकमिश्रया वस्तव्यम् ||२०|| यतः निश्राकरणे स शय्यातरः पुनः दुष्टात् दुष्टजमात् कामुकादिदुष्ट पुरुषात् तासां रक्षां करोति, एवं करणे न कोऽपि तासां काश्चिदपि बाधामुत्पादयितुं शक्नोति, तथा श्वापदस्तेनादित:- श्वापदेभ्यः हिंस्रपश्वादिभ्यः चौरादिभ्यश्च तासामिह उपाश्रये रक्षणं रक्षाकरणं तत्कार्यं तस्य तत् कार्यमेव भवति ॥ २१ ॥ उक्त निर्ग्रन्थीनां सागारिकनिश्रया संवसनम्, साम्प्रतं निर्ग्रन्थानां तु सागारिकस्य निश्रयाऽनिश्रया वा वस्तुं कल्पते इति प्रदर्शयति- 'कम्प' इत्यादि । सूत्रम् -- कप्पइ निग्गंथाणं सामा रियल्ल णिस्साए वा अणिस्साए वा वत्थए | २४| छाया -कल्पते निर्ग्रन्थानां सागारिकस्य निश्रया का अनिश्रया वा वस्तुम् ॥ ० २४ ॥ चूर्णी - 'कप्पड़' इति । मिर्ग्रन्यानां यत् श्वापदस्मादिबहुल क्षेत्रं भवेत्तत्र तेभ्यो रक्षादि"कारणे सति सागरिकस्य शय्यतरस्य निश्रया आलम्बनेन 'वयमत्र वसामः अस्माकं रक्षा त्वया कर्त्तव्या ' स्यादिरूपेण गृहस्थस्यालम्बनं कृत्वा वस्तुं कल्पते, अथ चाऽसति पूर्वोक्ते कारणे सागारिकस्यानि - श्रयाऽपि वस्तुं कल्पते, पुरुषत्वेन स्वभावत एव धृतिबला दिसंपन्नत्वात्तेषाम्, निर्ग्रन्थीनां तु कारणे कारणे वा सामारिक निश्रां विना न कदापि वस्तु कल्पते, इति द्वयोः सूत्रयोर्भिन्नत्वम् ॥ २४ ॥ पूर्वं निर्ग्रन्थानां सागारिकस्य निश्रयाऽनिश्रया वा भिवासः प्रोक्तः, साम्प्रतं गृहस्थवस्तुजातरूपसागारिकसहितै उपाश्रये निर्ग्रन्थनिर्ग्रन्थीमां दयानामपि वस्तुं न कल्पते, इति प्रतिपादयति-'नो कप्पइ० सागारिए' इत्यादि । सूत्रम्--नो कप्पर निग्गंथाणं वा निग्गंधीणं वा सामारिए उवस्सए वत्थए | २५ | छाया - नो कल्पते निर्ग्रन्थानां या निग्रन्थीनां वा सागारिके उपाश्रये वस्तुम् ॥सू: २५|| 'चूर्णी - 'नो कप' इति । निर्ग्रन्थानां निर्ग्रन्थीनां च सांगारिके - भगारिण इदं वस्तुजातं बागारिक, आगारिकेण सहितः सागारिकः, यंत्रोपाश्रये गृहस्थस्य वस्त्राभूषण खष्ट्रापल्यङ्कादिगृह- सामग्री वर्त्तते सः सामारिक उपाश्रयः कथ्यते, तस्मिन् वस्तुं न कल्पते इति । सागारिकं द्विविधम्द्रव्यसामारिकं मानसामारिकं च तत्र द्रव्यसागारिकं बनाभूषणादिवस्तु जातम्, भावसागारिकम् - ईक्लेशादिमयो मनोभावः, यत्र गृहस्थानां तदुपाश्रयविषये परस्परं मनसि ईर्ष्या क्लेशादिभावः परम्परागत आधुनिको वा संभवेत्तादृश उपाश्रयो भावसागारिकः प्रोच्यते, भत्र चतुर्भङ्गी यथा
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy