SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ चुणिभाष्यावचूरी उ० १ सू० २३-३१ वसतिवासविधिः २१ पूर्व सागारिकोपाश्रये वासो निषिद्धः, असागारिके च वासो विहितः, साम्प्रतं निर्ग्रन्थानां स्त्रीसागारिकोपाश्रये, निर्ग्रन्थीनां च पुरुषसागारिकोपाश्रये वासस्य कल्पाकल्पविधि सूत्रचतुष्टयेन प्रतिपादयन् प्रथमं निर्ग्रन्थविषयकं सूत्रद्वयमाह-'नो कप्पइ० इत्थीसागारिए' इत्यादि । सूत्रम्--नो कप्पइ निग्गंथाणं इत्थीसागारिए उवस्सए वत्थए । सू०२७॥ कप्पइ निग्गंथाणं पुरिससागारिए उवस्सए वत्थए । सू०२८॥ छाया-नो कल्पते निर्ग्रन्थानां स्त्रीसागारिके उपाश्रये वस्तुम् ॥ सू० २७॥ कल्पते निर्ग्रन्थानां पुरुषसगारिके उपाश्रये वस्तुम् ॥ सू० २८॥ चूर्णी-'नो कप्पई' इति । नो कल्पते निर्ग्रन्थानां साधूनां स्त्रीसागारिके उपाश्रये वस्तुम् , तत्र स्त्रीभिः मनुष्यतिर्यस्त्रीभिर्यः सागारिकः स्त्रीसागारिकः यत्रोपाश्रये स्त्रियो वसन्ति खण्डनपेषणादिकार्य कुर्वन्त्यस्तिष्ठन्ति गमनागमनं वा कुर्वन्ति, अथवा यत्रोपाश्रये स्त्रीणां प्रवेशनिर्गममार्गो वा भवेत्, अथवा तिर्यकत्रियो यत्र गोमहिण्यजादिरूपाः तिर्यस्त्रियस्तिष्ठन्ति बद्धा भवन्ति वा सोऽपि स्त्रीसागारिकः प्रोच्यते, तस्मिन् स्त्रीसंसोपेते उपाश्रये साधूनां वस्तुं नो कल्पते, तत्र वासे साधूनां ब्रह्मवतभङ्गप्रसङ्गात् ॥ सू० २७॥ अथ पुरुषसागारिके निर्ग्रन्थानां वासः कल्पते इति द्वितीयं सूत्रमाह - 'कप्पई' इत्यादि कल्पते निर्ग्रन्थानां पुरुषसागारिके उपाश्रये वस्तुम्। साधूनां पुरुषशरीरत्वेन पुरुषसंसर्गे दोषाऽसंभवात्, इदमपवादिकं सूत्रम्, तेन विशुद्धाऽन्योपाश्रयाभावे एकद्विरानं यावद् यतनया तत्र वस्तुं कल्पते नाधिकमिति विज्ञेयम् ॥ सू० २८॥ अत्राह भाष्यकारः- 'इत्थी' इत्यादि । भाष्यम्--इत्थी दुविहा वुत्ता, माणुस्सित्थी तहेव तेरित्थी । दुविहावि जत्थ चिट्ठइ, वसिउं नो कप्पइ जईणं ॥२३॥ थीसागारियवासे, बंभे दोसा तहा य उड्डाहो । कप्पइ पुंवसहीए, एत्थंपि य एगदुगरत्तिं ॥२४॥ छाया - स्त्री द्विविधा प्रोक्ता, मानुषस्त्री तथैव तिर्यकस्त्री। द्विविधाऽपि यत्र तिष्ठति, वस्तुं नो कल्पते यतीनाम् ॥२३॥ स्त्रीसागारिकवासे, ब्रह्मणि दोषाः तथा च उड्डाहः । कल्पते वसतौ, अत्रापि च एकद्विकरात्रम् ॥२४॥ अवचूरी-'इत्थी' इति । अत्र स्त्रीसागारिके उपाश्रये निर्ग्रन्थानां वासो निषिद्धः, तत्र स्त्री द्विविधा प्रोक्ता तद्यथा-मानुषस्त्री तिर्यक्स्त्री च, एवं द्विविधाऽपि स्त्री यत्र तिष्ठति, पुरुषस्त्रियो रन्धनकुट्टनादिकार्य कुर्वन्त्यो निवसन्ति, तथा तिर्यस्त्रियश्च गोमहिष्यजादिरूपाः बद्धा अबद्धा वा यत्र तिष्ठन्ति तत्र यतीनां निर्ग्रन्थानां वस्तुं न कल्पते ॥२३॥
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy