SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ वृहत्कल्पसूत्रे मालागतरत्नवत् विपर्यस्ताक्षरविन्यासपूर्वकमुच्चारणम् ३ । हीनाक्षरम्- यद् सूत्रगताक्षरेभ्यः कानिचिदक्षराणि हीनानि कृत्वा उच्चारणम् ४ । अधिकाक्षरम्-यत् सूत्रे स्वबुद्धयाऽक्षराणि अधिकानि संयोज्योच्चारणम् ५। व्यत्यानेडितम्-यत् एकस्य शास्त्रस्य वचनेऽन्यान्यशास्त्रवचनानां संमिश्रणं कृत्वोच्चारणम् ६ । अपरिपूर्णम् -यद् मात्रापदचरणबिन्दुवर्णादिभिरपरिपूर्णतयोच्चारणम् ७। अपरिपूर्णघोषम् यद् उदात्तानुदात्तस्वरितरूपैः घोषैरपूर्णमुच्चारणम् ८ । अकण्ठोष्ठविप्रमुक्तम् - यत् कण्ठौष्टताल्वादिभिरविमुक्तमेवेति वर्णानां कण्ठोष्ठसंलग्नत्वेनाव्यक्तमस्पष्टमुच्चारणम्, अथवा वर्णानां कण्ठोष्ठादितत्तत्स्थानरहितमेवोच्चारणम् ९। अगुरुवाचनागतमिति-अगुरुवाचनोपगतम् यद् गुरुप्रदत्तवाचनया न प्राप्तं, गुरुतो वाचनामप्राप्यैवोच्चारणम् १०। इति । इत्यादिदोषरहितं सूत्रमुच्चारणीयमित्यस्य शास्त्रस्य प्रथमं सूत्रमाह'नोकप्पई' इत्यादि । सूत्रम्-नो कप्पइ निग्गंथाणं वा निग्गंथीणं वा आमे तालपलंबे अभिन्ने पतिगाहित्तए ॥सू० १॥ छाया—नो कल्पते निर्ग्रन्थानां वा निग्रंन्थीनां वा आमं तालप्रलम्यं अभिन्न प्रतिप्रहोतुम् ॥सू० १॥ चूर्णी-'नो कप्पइ'न कल्पते निग्गंथाणं निर्ग्रन्थानाम्,-निर्-निर्गताः ग्रन्थात् बाह्याभ्यन्तररूपात्, तत्र बाह्यो ग्रन्थः क्षेत्र वास्तु-हिरण्य-सुवर्ण-धन-धान्य-द्विपद-चतुष्पद-कुप्य-रूपो नवविधः, आभ्यन्तरः-राग-द्वेष-क्रोध-मान-माया-लोभ-हास्य-रत्यरति-मिथ्यात्व-वेद-भय-शोक-जुगुप्सारूपश्चतुर्दशविधः, ताभ्यां द्विविधाभ्यामपि ग्रन्थाभ्यां निर्गता निम्रन्थाः श्रमणास्तेषाम् , एवं निग्गंथीणं निम्रन्थीनां पूर्वोक्तलक्षणवतीनां साध्वीनां आमे आमम् अपकम् , यत् तालपलंबे, तालपलम्बम् , तलो वृक्षविशेषस्तत्र भवं तालं वृक्षविशेषसम्बन्धि, पलम्ब-प्रलम्बते इति प्रलम्बं प्रकर्षेग लम्ब वा प्रलम्बं लम्बायमानमाकृतितो दीर्घ कदलीफलादिकं अभिन्ने अभिन्नं, भिन्नं द्रव्यतो भावतश्च द्विविधम् , तत्र द्रव्यतो भिन्नं क्षुरिकादिना विदारितं, भावतो. भिन्नं व्यपगतजीवमचित्तमित्यर्थः तद्विपरीतम् अभिन्नं शस्त्रापरिणतत्त्वेन सचित्तमित्यर्थः, तादृशं तालप्रलम्बं पडिगाहित्तए प्रतिग्रहीतुम्-आदातुं न कल्पते इति पूर्वेण सम्बन्धः, आमफलस्य सचित्तत्वसद्भावात् । सू० १॥ अथ यादृशं तालप्रलम्बं कल्पते तदेव प्रदर्शयति-'कप्पई' इत्यादि । मूलम् -कप्पइ निग्गेथाणं वा निग्गंथीण वा आमे तालपलम्बे भिन्ने पडिगाहित्तए ॥५० २॥ छाया-कल्पते निग्रन्थानां वा निर्ग्रन्थीनां वा आमं तालप्रलम्ब भिन्न प्रतिग्रहीतुम् ॥सू०२।
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy