SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालव्रतिविरचितं चूर्णिभाष्यावचूरीसमलङ्कृतम् श्रीबृहत्कल्पसूत्रम् । मङ्गलाचरणम् (मालिनीवृत्तम्) भविजनहितकारं, ज्ञानवित्तैकसारम् , कृतभवभयपारं नष्टकर्मारिभारम् । भघहरणसमीरं, दुःखदावाग्निनीरम् , .. विमलगुणगभीरं, नौमि वीरं सुधीरम् ॥१॥ (मालावृत्तं-इन्द्रवज्रा) बृहद्भिरिदैश्च जिनैर्गणीशै,-स्तथा पुरा पूर्वधरैः प्ररूपितः । तैरेव पूर्व चरितो बृहन् यः, कल्पो बृहत्कल्प इति प्रसिद्धः ॥२॥ __ (अनुष्टुबू वृत्तम्) बृहत्कल्पस्य तस्यैव, भाष्यं चूर्ण्यवचूरिका । शास्त्रसारं समादाय, घासीलालेन तन्यते ॥३॥ अथेह शास्त्रादौ पूर्वमनुगमः कर्त्तव्यः, अनुगमः इति किम् ? गमनं गमः ज्ञानमित्यर्थः अनु-भगवदचनमनुसृत्य यो गमः सोऽनुगमः । स च द्विधा-नियुक्त्यनुगमः, सूत्रानुगमश्च, तत्र नियुक्त्यनुगमः पद्यादिरूपः, सोऽत्र नाधिकृतः । सूत्रानुगमः सूत्ररूपः, स चात्र प्रसङ्गप्राप्तः शास्त्रस्य गणधरैः प्रायः सूत्ररूपेण प्रथितत्वात् इति सूत्रानुगमे सूत्रमुच्चारणीयम्, तच्च स्खलितादिदशदोषविनिर्मुक्तं भवितुर्महति, ते च सूत्रोच्चारणदोषा यथा सवलितं १ मिलितं २ चैव, व्यविद्धाक्षरमेव च ३। हीनाधिकाक्षरे द्वे ५ च, व्यत्यानेडितमेव च ६।" ॥१॥ अपरिपूर्णमित्येक ७-मपरिपूर्णघोषकम् ८ अकण्ठोष्ठविप्रमुक्त ९-मगुरुवाचनाऽऽगतम् १० ॥२॥ इति तत्र संवलितम्-यद् अन्तराऽन्तरा पदादि मुक्त्वा उच्चारणम् १ । मिलितम्-यत् अन्यान्यस्य उद्देशस्याध्ययनस्य वा आलापकादि संमेल्योच्चारणम् २ । व्याविद्वाक्षरम् यद् विपर्यस्तरत्न
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy