SearchBrowseAboutContactDonate
Page Preview
Page 32
Loading...
Download File
Download File
Page Text
________________ चूर्णि भाष्यावचूरी उ० १ सू० २-५ प्रलम्बप्रकरणम् ३ चूर्णी - कप्पइ कल्पते निग्गंथाणं निर्ग्रन्थानां निम्गंथीणं निर्ग्रन्थीनां पूर्वप्रदर्शितस्वरूपाणां साधूनां साध्वीनां च आमे आमं अपक्कं तालप्रलम्बं वृक्षविशेषस्य लम्बं फलं कदलीफलादिकं यदि भिन्नं द्रव्यतो भावतश्च शस्त्रपरिणतमचित्तं भवेत्तदा पडिग्गा हित्तए प्रतिग्रहीतुम् कल्पते भिन्नस्य शस्त्रपरिणतत्वेन सचित्तत्वदोषराहित्यात् ॥ सू० २॥ पूर्वं सामान्येन निषेधो विधिश्च प्रदर्शितः, साम्प्रतं विशेषमाह - ' कप्पड़' इत्यादि । मूलम् - कप्पर निम्गंथाणं पक्के ताळपलंबे भिण्णे वा अभिण्णे वा पडिगा - हित्तए | सू० ३ ॥ छाया -कल्पते गिर्ग्रन्थानां पक्वं तालप्रलम्बं भिन्नमभिन्नं वा प्रतिग्रहीतुम् ॥ सू०३॥ चूर्णी -- कप्पड़ कल्पते निग्गंथाणं निर्ग्रन्थानां श्रमणानां पक्के तालपलंबे पक्वं तालप्रलम्बं कदलीफलादिकं दीर्घफलं भिण्णे वा अभिण्णे वा भिन्नं वा अभिन्नं वा द्विविधमपि पडिगाहिप्रतिग्रहीतुं कल्पते । पकमिति यदचित्तं तत् कल्पते, साधूनामाकृतिजनितदोषाभावात् ॥सू०||३|| अथ निर्ग्रन्थीनां पकस्याप्यभिन्नस्य ग्रहणे निषेधमाह - 'नो कप' इत्यादि । मूलम् - नो कपइ निग्गंथीणं पक्के तालपलंबे अभिन्ने पडिगाहित्तए ||४॥ छाया-- - नो कल्पते निर्मन्थीनां पक्वं तालप्रलम्बं अभिन्न प्रतिग्रहीतुम् ॥सू०४ ॥ चूर्णी - नो कप्पइ नो नैव कल्पते निम्गंथीणं निर्ग्रन्थीनां साध्वीनां पक्के तालपलंबे पकमपि तालप्रलम्बं यत् अभिन्ने अभिन्नम् अविदारितं अखण्डमित्यर्थः, तत् पडिगाहित्तए प्रतिग्रहीतुं न कल्पते, निर्ग्रन्थीनां तदाकृतिजन्यदोषप्राप्तिसद्भावात् ॥ सू०४॥ साम्प्रतं पक्वस्य तालप्रलम्बस्य ग्रहणे साध्वीनां विधिं प्रदर्शयति - ' कप्पर' इत्यादि । मूलम् - कप्पइ निग्गंथीणं पक्के तालपलंबे भिन्ने पडिगाहित्तए, सेवि य विभिण्णे नो चेवणं अविहिभिण्णे ॥ सू० ५ ॥ छाया -कल्पते निर्ग्रन्थीनां पक्वं तालप्रलबं भिन्नं प्रतिग्रहीतुम्, तदपि च विधिभिन्न नैव खलु अविधिभिन्नम् ॥ ० ५|| चूर्णी- - कप्पड़ कल्पते निग्गंथीणं निर्ग्रन्थीनां पक्के तालपलंबे पक्वं तालप्रलम्बं भिण्णे भिन्नं खण्डितं यदि भवेत्तदा पडिगाहेत्तर प्रतिग्रहीतुं कल्पते, किन्तु सेवि य णं तदपि च भिन्नमपि च खलु यदि विहिभिन्नं विधिभिन्नं विधिना उचितप्रकारेण फलकर्त्तनविधिना यदि भिन्नं भवेत्तदा कल्पते नो चेवणं नैव खलु अविहिभिन्नं अविधिभिन्नं कल्पते, विधिभिन्न मिति किमव्याकारविशेषमधिकृत्य खण्डितं न भवेत् तत् अविधिभिन्नं तु यत् कमप्याकारविशेषमधिकृत्य खण्डितं भवेत्तन्न कल्पते इति भावः ||सू०५॥ अत्र गाथात्रयमाह भाष्यकार: "
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy