SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्तिप्रकाशिका टीका प्रा. १० प्रा०प्रा ११ चन्द्रसूर्यमण्डलमार्गतदन्तरंच ९ कि.यन्ति सूर्यमण्डलानि भवन्ति तथा षष्ठमण्डलादारभ्य दशमण्डलपर्यन्तानि पञ्च (६-७-८ ९-१०) चन्द्रमण्डलानि कथं सूर्याभ्यां न स्पृश्यन्ते ! इति तद्विभाग उपदर्यते-तत्र प्रथममेतद्विभागप्रदर्शनार्थ सूर्यस्य विकम्पक्षेत्रकाष्ठा प्ररूप्यते विकम्प इति शनैः शनैः संचरणरूपा गतिरिति । अत्र सूर्यस्य विकम्पक्षेत्रकाष्ठा, काष्ठेति विकम्पक्षेत्रस्य उत्कृष्ठं परिमाणमिति सा च दशोत्तराणि पञ्च योजनशतानि (५१०)। तथाहि-यदि सूर्यस्य एकेनाहोरात्रेण विकम्पो द्वे योजने, एकस्य च योजनस्य अष्टचत्वा रिंशदेकषष्टिभागाः (२- लभ्यन्ते तदा त्र्यशीत्यधिकशता (१८३) होरात्रैः कति योजनानि लभ्यन्ते ? इति - त्रैराशिकं गणितं क्रियते, तत्र राशित्रयं स्थाप्यते-१८३। अत्रान्त्यराशिना मध्यराशीर्गुण्यते ततो मध्यराशिगतयोजनद्वयस्य सवर्णनार्थम् एकषष्टि (भागकरणार्थम्) ढे योजने एकषष्टया गुण्येते जातं द्वाविंशत्यधिकमेकं शतम् (१२२) जाता एते एकषष्टिभागाः, एषु ये अष्टचत्वारिंशदेकषष्टिभागा स्थितास्ते-प्रक्षिप्यन्ते जातं सप्तत्यधिकमेकं शतम् (१७०) संजात एष गुण्यराशिरन्त्येन त्र्यशीत्यधिकशत (१८३) संख्यकराशिना गुण्यते जातानि दशोत्तरशताधिकानि एकत्रिंशत्सहस्राणि (३१११०) । एते एकषष्टिभागाः सन्ति, एषां योजनानयनार्थमेकषष्टया भागो हियते, लब्धानि दशोत्तराणि पञ्चशतयोजनानि (५१०) एतावती त्र्यशीत्यधिकशताहोरात्रैः सूर्यस्य विकम्पक्षेत्रकाष्ठा । एष दशोत्तर पञ्चशत योजनपरिमितः सूर्यस्य त्र्यशीत्यधिकशतमण्डलपरिभ्रमणमार्गः, नातोऽधिकमित्यतो विकम्पक्षेत्रकाष्ठेत्युच्यते । अथ चन्द्रस्य विकम्पक्षेत्रकाष्ठा प्रदश्यते चन्द्रस्य विकम्पक्षेत्रकाष्ठा नवाधिकपञ्चशतयोजनानि एकस्य च योजनस्य त्रिपञ्चाशदेकषष्टिभागाः (५०९५३) । ततो यदि चन्द्रमसो विकम्पः एकेनाहोरात्रेण षट् त्रिंशद्योजनानि, एकस्य च योजनस्य पञ्चविंशति रेकषष्टिभागाः एकस्य चैक षष्टि भागस्य चत्वारः सप्तभागाः ३६ -- लभ्यन्ते तदा चतुर्दशभिरहोरात्रैः कतिभागा लभ्यन्ते ? ५४ ८७ अत्रापि राशित्रयात्मकं गणितं भवति ततो राशित्रयस्थापना क्रियते सा चेत्थम्-११४ । 2019
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy