SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ चन्द्रप्राप्तिस्त्रे सप्त सन्ति, 'तं जहा' तद्यथा तानि यथा--'बितिए चंदमंडले' द्वितीयं चन्द्रमण्डलम्' 'चउत्थे चंदमंडले' चतुर्थं चन्द्रमण्डलम् २, 'पंचमे चंदमंडले' पञ्चमं चन्द्रमण्डलम् ३, 'नवमे चंदमंडले' नवमं चन्द्रमण्डलम् ४, बारसमे चंदमंडले' द्वादशं चन्द्रमण्डलम् ५, 'तेरसमे चंदमंडले' त्रयोदशं चन्द्रमण्डलम् ६, 'चउद्दसमे चंदमंडले' चतुर्दशं चन्द्रमण्डलम् ७, ।२। 'तत्थ' तत्र पञ्चदशसु चन्द्रमण्डलेषु 'जे ते चंदमंडला' यानि तानि चन्द्रमण्डलानि सन्ति तेषु 'जे णं' यानि खलु 'ससिरवि नक्खत्ताणं' शशिरवि नक्षत्राणां कृते 'सामण्णा' सामान्यानि सर्वसाधारणानि सर्वेषां चारयोग्यानि 'भवंति' सन्ति 'ते णं' तानि खलु 'चत्तारि' चत्वारि' 'तं जहा' तद्यथा--तानीमानि–'पढमे चंदमंडले' प्रथमं चन्द्रमण्डलम् १, 'वीए चंदमंडले' द्वितीयं चन्द्रमण्डलम् २, 'इक्कारसमे चंदमंडले' एकादशं चन्द्रमण्डलम् ३, 'पण्णरसमे चंदमंडले' पञ्चदशं चन्द्रमण्डलम् ४।३। तथा— 'तत्थ' तत्र तेषु पञ्चदशसु चन्द्रमण्डलेषु 'जे ते चंदमंडला' यानितानि चन्द्रमण्डलानि सन्ति तेषु 'जे णं' यानि खलु 'सया' सदा संर्वकालं दिवसे रात्रौवा 'आइच्चे हि विरहिया' आदित्याभ्यां सूर्याभ्यां विरहितानि सूर्यमण्डलस्पर्शवर्जितानि 'तेणं' तानि खलु 'पञ्च' पञ्च, 'तं जहा' तद्यथा तानि यथा- 'छष्टे चंदमंडले' षष्ठं चन्द्रमण्डलम् १, 'सत्तमे चंदमंडले' सप्तमं चन्द्रमण्डलम् २, 'अट्टमे चंदमंडले' अष्टमं चन्द्रमण्डलम् ३, 'नवमे चंदमंडले' नवमं चन्द्रमण्डलम् ४, 'दसमे चंदमंडले' दशमं चन्द्रमण्डलम् ५, इति । ____ अत्रैवं गम्यते यत्-यानि एकतः पञ्च पर्यन्तानि पञ्च १-२-३-४-५ ) चन्द्रमण्डलानि सर्वाभ्यन्तराणि, तथा यानि च-एकादशत आरभ्य पञ्चदशपर्यन्ताणि पञ्च (११-१२ १३-१४-१५) चन्द्रमण्डलानि सर्वबाह्यानीत्येतानि दश चन्द्रमण्डलानि सूर्यस्यापि साधारणानि सूर्यस्यापि चारयोग्यानि सन्ति येषु सूर्याऽपि चारं चरति । शेषाणि षष्ठत आरभ्य दशपर्यन्तानि ६-७-८-९-१० पञ्च चन्द्रमण्डलानि चन्द्रस्यैवासाधारणानि यतस्तत्र चन्द्रएव चार चरति न तु कदाचिदपि सूर्य इति, उक्तञ्च "दसचेव मंडलाई, अन्भिंतरवाहिरा रवि ससीणं । सामण्णाणि उ नियमा, पत्तेया होति सेसाणि ॥१॥ छाया-दश चैव मण्डलानि आभ्यन्तर-बाह्यानि रविशशिनोः । सामान्यानि तु नियमात् , प्रत्येकानि भवन्ति शेषाणि ॥१॥ अर्थः स्पष्टः नवरौं प्रत्येकानि-एकमेकं प्रति-प्रत्येकम् , तानि प्रत्येकानि-चन्द्रस्य असाधारणानि, चन्द्रस्यैव भोग्यानि न तु कदाचिदपि सूर्यस्य । तेषु कदाचिदपि सूर्यो न गच्छतीति भावः । अत्र किम् चन्द्रमण्डलं कियता सूर्यमण्डलेन न स्पृश्यते ? तथा चन्द्रमण्डलस्यापान्तराले
SR No.006353
Book TitleAgam 17 Upang 06 Chandra Pragnapti Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages738
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_chandrapragnapti
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy