SearchBrowseAboutContactDonate
Page Preview
Page 1083
Loading...
Download File
Download File
Page Text
________________ १०७२ आचारांगसूत्रे चन्द्रप्रभा शिबिकाम् सहस्रवाहिनीम् स्थापयति, स्थापयित्वा शनैः शनैः चन्द्रप्रभाद् शिवि कातः सहस्रवाहिनिकातः प्रत्यवतरति प्रत्यवतीय शनैः शनैः पूर्वाभिमुखः सिंहासने निषी दति, आभरणालङ्कारम् अवमुश्चति, ततो वैश्रमणो देवो जानुपादपतितः भगवतो श्रीमहावीरस्य हंसलक्षणेन पट्टेन आभरणालंकारान् प्रतीच्छति, ततः श्रमणो भगवान् महावीरः दक्षिणेन दक्षिणं वामेन वामं पञ्चमुष्टिकं लोचं करोति, ततः शक्रो देवेन्द्रो देवराजः श्रमणस्य भगवतो महावीरस्य जानुपादपतितः वज्रमयेन स्थाले न केशान् प्रतीच्छति प्रतीच्छय अनुजानीहि भदन्त ! इति कृत्वा क्षीरोदकसागरे संहरते, ततः श्रमणो भगवान महावीरः यावद् लोचं कृता सिद्धेभ्यो नमस्कारं करोति, नमस्कारं कृता सर्व मे अकाणीयं पापकर्म इति कृत्वा सामायिक चारित्रं प्रतिपद्यते, प्रतिपद्य देवपरिषदं च मनुष्यपरिषदं च आलेख्य चित्रभूतामिव स्थापयतिदिव्यो मनुष्यघोषः तूर्यनिनादश्च शक्रवचनेन क्षिप्रमेव निर्लप्तः यदा प्रतिपद्यते चरित्रम् ॥१। प्रतिपद्य चरित्रम् अहर्निशम् सर्वप्राणिभूतहितम् । संहृष्य रोमपुलकाः सर्वेदेवाः निशामयन्ति ॥२॥ ततः श्रमणस्य भगवतो महावीरस्य सामायिक क्षायोपशमि चरित्रं प्रतिपन्नस्य मनः पर्यवज्ञानं नाम ज्ञानं समुत्पन्नम्, अर्धतृतीये द्वीपे द्वयोश्च समुद्रयोः संज्ञिनां पञ्चेन्द्रियाणाम् पर्याप्तानां व्यक्तमनसां मनोगतान् भावान् जानाति, ततः श्रमणो भगवान महावीरः प्रवजितः सत् मित्रज्ञातिस्वजनसम्बन्धिवर्गम् प्रतिविसर्जयति, प्रतिविसर्य इमम् एतद्पम् अभिग्रहम् अभिगृह्णाति, द्वादशवर्षाणि व्युत्सृष्टकायः त्यक्तदेहः ये केचिद् उपसर्गाः समुत्पद्यन्ते तद्यथादिव्याः वा मानुष्याः वा तैरश्चिका वा तान् सर्वान् उपसर्गान् समुत्पन्न न सतः सम्यक्सहिष्ये क्षमिष्ये अधिसहिष्ये, ततः श्रमणो भगवान् महावीर: इमम् एतद्रूपम् अभिग्रहम् अभिगृह्य व्युत्मृष्टत्यक्तदेहः दिवसे मुहूर्तशेषे कुमारग्रामम् समनुपाप्तः, ततः श्रम गोभगवान श्रीमहावीरः व्युत्सृष्टत्यक्तदेहः अनुत्तरेण आलयेन अनुत्तरेण विहारेण एवं संयमेन प्रग्रहेण संवरेण तपसा ब्रह्मचर्यवासेन क्षान्त्या मुक्ता समित्या गुप्त्या तुष्टया स्थानेन क्रमेण सुचरितफलनिर्वाणमुक्तिमार्गेण आत्मानं भावयन् विहरति, एवं वा विहरमाणस्य ये केचिद् उपसर्गाः समुत्पद्यन्ते दिव्या वा मानुष्या वा तैरश्चिका वा तान् सर्वान् उपसर्गान् समुत्पन्नान् सतः अनाकुलः अव्य. थितः अदीनमानसः त्रिविधमनोवचनकायगुप्तः सम्यक् सहते क्षमते तितिक्षते अध्यास्ते, ततः श्रमणस्य भगवतो महावीरस्य एतेन विहारेण विहरमाणस्य द्वादश वर्षाः व्यतिकान्ताः त्रयो दशस्य च वर्षस्य पर्याये वर्तमानस्य योऽसौ ग्रीष्मस्य द्वितीयो मासः चतुर्थः पक्षः वैशाखशुक्लपक्षः तस्य वैशाखशुक्लस्य दशमीपक्षे सुत्रते दिवसे विजये मुहूर्ते हस्तोत्तरेण नक्षत्रेण योगमुपगते प्राचीनगामिन्यां छायायां व्यक्तायां पौरुष्याम् (पाश्चात्य पौरुष्याम् ) जम्भिक ग्रामस्य नगरस्य बहिस्तात् नद्याः ऋजुवालुकायाः उत्तरकूले श्यामाकस्य गृहपतेः ऊर्ध्वजानुअधः शिरसः ध्यानकोष्ठोपगतस्य व्यावृत्तस्य चैत्यस्य उत्तरपौरस्त्ये दिग्भागे शालवृक्षस्य अदरसामन्ते उत्कुटुझस्य गोदोहित या आतापनया आतापपतः षष्ठेन भक्तेन अपानकेन शुक्लध्यानान्तरे वर्तमानस्य निर्वागे कृत्स्ने प्रतिपूर्णे अव्याहते निरावरणे अनन्ते अनुत्तरे श्रीमायागसूत्र:४
SR No.006304
Book TitleAgam 01 Ang 01 Aacharang Sutra Part 04 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1979
Total Pages1199
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_acharang
File Size83 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy