________________
-कल्प-स्तोत्रादि-सन्दोह ]
-[४१] त्वद्दोर्दण्डवलादेव त्रैलोक्यं तन्मयं व्रजेत् । इन्द्रोपेन्द्रादयश्चामी त्वत्पुरः किङ्करा इव ॥६१२॥ इति श्रुत्वा हरेर्वाक्यं विलोक्यावधिनाऽपि च । नेमिर्जगाद दन्तेन्दुद्युतिपापतमोहरः ॥६१३॥ श्रृणु श्रीकान्त ! सम्भ्रान्तो रिपुस्ते विक्रमौजसा। यन्मुमोच जरां तेन तयाऽयं विधुरो जनः ॥६१४॥ सत्यं हन्ति भवान् शत्रनेकोऽपि रणसङ्कटे। जरया परमेते तु प्राणान् मोक्षन्ति तच्छृणु ॥६१५॥ पाताले धरणेन्द्रस्य विद्यते देवतालये।। भविष्यत्सार्श्वनाथस्य प्रतिमा महिमाधिका ॥६१६॥ आराध्य धरणेन्द्रं तमुपवासस्त्रिभित्र्यहम् । प्रतिमां तां च याचस्व स ते दास्यति सेवितः ॥६१७॥ तस्याः पादाम्बुजस्नात्रपयसा कृतसेचनम् । तव सैन्यमिदं मोहमुज्झित्वोत्थास्यति क्षणात् ॥६१८॥ कृष्णोऽप्युवाच तद्ध्याननिरते मयि कश्चमूम् । पास्यत्येनां जिनोऽप्याह पाताऽहं शत्रुसङ्कटात् ॥६१९॥ श्रुत्वेति हर्षभाक् कृष्णस्तदाराधनतत्परः। बभूव विशदामानध्यानप्रक्षिप्तमानसः ॥६२०॥ इतश्च स जरासन्धः समियाय सुविक्रमः। चतुरङ्गचमूयुक्तस्तद्बलं च तथा विदन् ॥६२१॥ नभोमण्डपमातन्वन् रविमाच्छादयन् सुखम् । बाणदृष्टिं व्यधात् सोऽथ धाराधर इवापरः ॥६२२॥