________________
[ ४२ ]
-[ शकेश्वर-महातीर्थअथ नेमिनिदेशेन मावलिः स्वबलाभितः। वात्त्यावर्त्तमिव स्वैरं भ्रामयामास स्यन्दनम् ॥६२३॥ अपूरयन् महाशङ्ख त्रिजगद्व्यापिनिःस्वनम् । शाक्रीयं च चकर्षोंच्चैधनू रौद्ररवं विभुः२ ॥६२४॥ सर्वतोऽपि मुमोचोच्चैः शरान् सङ्ख्यातिगान् लघु । रिपवः सर्वतस्तं चापश्यन् सर्वमयं यथा ॥६२५॥ तद्रथावर्त्ततद्वाणधोरणीभ॑त्तुमक्षमाः। दूरे तस्थुनृपाः सर्वे तद्रणे साक्षिणो यथा ॥६२६॥ चिच्छेद कवचेष्वासमुकुटध्वजसायकान् । नृपाणां भगवान् प्राणान् नाहरत् स दयामयः ॥६२७॥ इतो ध्याननिलीनस्य कृष्णस्य पुरतोऽभवत् । पद्मावती तृतीयेऽह्नि प्रभापुञ्जान्तरस्थिता ॥६२८॥ वीक्ष्य तां पुरतः कृष्णः सुरीगणसमन्विताम् । प्रणम्य भक्तिमान् प्राह स्तुतिपूर्वमिदं वचः ॥६२९॥ धन्योऽद्याहं कृतार्थोऽस्मि पवित्रोऽद्यास्मि पावने ।
अद्य मे सफलाः कामा यदभूद् दर्शनं तव ॥६३०॥ १ पं. हीरालालदेवचन्द्रसंशोधिते ग्रन्थे इदं पद्यमधिकं दृश्यते
तद्रथभ्रमिशब्देन विश्वं निश्चेष्टतामगात् ।
एककस्य जरासन्धसैन्यस्य किमिवोच्यते ॥१॥ २ पं. होरालालदेवचन्द्रसंशोधिते ग्रन्थे इदं पद्यमधिकं वर्तते
तत्कोदण्डविस्फारात् स्फुरतश्चुक्षुमे जगत् । निर्मथ्यमानार्णववजन्येऽन्यकरणासहम्
॥१॥