SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली विधाय मामनुगृहाण । इति तस्या वचनमाकलय्य मनसि चमत्कृतः स व्यचिन्तयत् - अहो ! धन्या किलेयम्प्रतीयते । या हि दत्तवचनरक्षार्थमतिदुष्करमपि चिकीर्षति । तथैतस्या भर्ताऽपि धन्यतरः । यो हि नवोढामीदृशीं त्रिभुवनाऽतिशय सौन्दर्यरत्नाकरायितामतिप्रेयसीमीदृक्प्रतिज्ञापूरणाय समादिशत् । उभावपि सत्यशीलौ धन्यौ नमस्याह । अत एतस्याः शीलं रक्षणीयमेवेति विचार्य सोऽपि तस्यै भगिनीधिया वसनाऽऽभरणादिकमदात् । कथितञ्च त्वं धन्याऽसि, भगिनि ! त्वं निजालयं व्रज । अथ तन्मुक्ताऽखण्डितशीला धनश्रीस्तद्राक्षसमागत्याऽमिलत् । सोऽपि सत्यवचनां तामवेदीत्, पुनर्मालाकृता यदाचरितं तदपि तन्मुखादाकर्ण्य तां प्रशस्य वस्त्राऽऽभरणैः सत्कृत्य गृहगमनाय समादिशत् । अथ राक्षसेन सत्कृत्य मुक्ताऽभक्षिताङ्गी सा चौरान्तिकमागता । तेऽपि तां सत्यवचनां सुशीलां मत्वा हृष्टाः सन्तो वस्त्राऽऽभरणादिभिः सत्कृत्य मुमुचुः । | इत्थमखण्डितशीला निर्विघ्नेन भर्तुरन्तिकमागात् । तस्मै च यथाजातं वृत्तं सर्वं निवेदयामास । तदाकर्ण्य भर्त्राऽपि सा सम्मानिता । | तत्राऽभयकुमार इत्युदीर्य सर्वानपृच्छत् - भो भो लोकाः ! यूयं विचार्य कथयत, अत्र दुष्करं कर्म केनाऽकारि ? तत्राऽवसरे कियन्तो विषयैषिणोऽधीरा नरास्तस्याः पतिं प्रशशंसुः । कियन्तः कामुकाः समागतां नवोढामतिसुन्दरीं तां त्यजन्तं तमारामिकं 128
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy