SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली तादृशमतिदुष्करं कृत्यमनुष्ठातुमादिशन्तं तद्भर्तारञ्चाऽस्तुवन् । कियन्तस्तं मांसलोलुपं राक्षसम् । ततो येनाऽऽम्रफलानि चौरितानि, स एक एव ताञ्चौरानवर्णयत्। ___ ततोऽभयकुमारो दूतेन तं नरं स्वान्तिकमानाय्य गतेषु लोकेषु बद्ध्वा कारागारनिवासमादिशत् । तदानीं कुट्टितस्तर्जितः स कुमाराने निजमुखेन तदानचौर्यमङ्गीकृतवान् । तदा पुनस्तं कुमारोऽपृच्छत्किमरे ! तत्तरोः सा शाखा तुङ्गत्वे गगनचुम्बति, त्वया तत्फलानि कथञ्जगृहिरे? किञ्च-तिष्ठत्सुतेषु रक्षकेषुतमारामं प्राविशः कथम्?। सत्यङ्कथय, तदा भयेन भृशङ्कम्पमानः सोऽवक्- हे स्वामिन् ! मम द्वे विद्ये वर्तेते । एका चोन्नतमपि करस्पृश्यं करोति, अपरा तं तथाऽवस्थं करोति, ताभ्यां मया तत्फलानि गृहीतानि । ततो मन्त्री तञ्चौरं नृपान्तिकमनयत् । नृपोऽपितं महापराधिनं मत्वा तदुचितां शिक्षामादिशत् । तदा कुमारो नृपमवादीत- भो महाराज ! एतस्मै शिक्षा माऽऽदिक्षः । एतत्पार्चे द्वे विद्ये स्तः । यत्साहाय्येन फलानि चोरितानि, ते गृहीत्वैनं मुञ्च । ततो नृपस्तमवक्तर्हि मे ते विद्ये देहि । सोऽपि मृत्युभीतिमुपेतस्तदा मन्त्रोच्चारणं व्यधात् । किन्त्वविनयादिदोषेण नृपस्तदुच्चारितं तन्मन्त्राक्षरं हृदि धर्तुं नाऽशक्नोत् । तदा मन्त्री जगाद-अविनयेन विद्या न गृह्यते । भवान् विनयेन सिंहासनान्नीचैरवतीर्य कृताञ्जलिस्तिष्ठन्नेनं सत्कृत्य गुरुबुद्ध्या सिंहासनमुपवेशयतु, तदा विद्या समेष्यति । अथ राजा तथैव विधाय विनयेन ते विद्ये जग्राह । तस्मिन्नवसरेऽभयकुमारेणोक्तम्हे राजन् ! असौ तस्करो नीचकुलजातोऽपि विद्याशालित्वात्पूज 129
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy