SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ N य सूक्तमुक्तावली गृह्णती तेनैकदा गृहीताहं, निरुपाया "सति विवाहे त्वया प्रथमं मत्पाहिमागन्तव्यमिति" तद्वचनमङ्गीकृतवत्यस्मि । अतस्तत्र गन्तुमधुना मामनुजानीहि। ततो भाऽऽज्ञप्ता सा षोडशशृङ्गारसज्जिता तत्र गन्तुमेकाकिनी प्रतस्थे । मार्गे च तस्याश्चौरा अमिलन, ते तदाभरणानि लुण्टयितुमीषुः । तदा सा तानेवमवक्- हे चौरा ! मामिदानीं मुञ्चत, अहङ्कस्यचिन्मालाकारस्य समीपं कृतां प्रतिज्ञां पूरयितुं भाऽऽदिष्टा व्रजामि, तत्र गत्वा प्रतिज्ञां पूरयित्वा पश्चादागमिष्यामि । तदा युष्माभिरेतानि मदाभरणानि ग्राह्याणि । इत्थं तत्कथामाकर्ण्य ते ताममुञ्चन्। तदने कश्चिच्चिरबक्षित एको राक्षसस्तामालोक्य मुखंव्यादाय भक्षितुमधावत्- तदा सा तमपि निजवृत्तं सर्वं निवेद्याऽनुनीय तमेवमप्रार्थयत् - भो राक्षस! इदानीं कृतां प्रतिज्ञां पूरयितुंव्रजन्तीं मां मुञ्च, तत्र गत्वा प्रतिज्ञां परिपूर्याऽनेनैव मार्गेणाऽचिरादहमेष्यामि | तदाहं भक्षणीयेति तद्वचः श्रुत्वा तेनापि मुक्ता सा, तन्मालाकारस्याऽन्तिकमागात्। सोऽपितदागमनं प्रतिक्षमाण आसीत् । तामागतां सोऽपृच्छत्हे सुन्दरि ! त्वमिदानी पतिमापृच्छय समागतासि उत ततश्छन्नैव ?, तदा साऽऽख्यत्-मयैतत्सर्वं पत्ये निवेदितम् । तदनु तेनाऽऽदिष्टा त्वदन्तिकमागच्छामि। ततश्छन्नान, यतोयो हि स्ववचनं विफलीकरोति, तस्य जीवितमपि सर्वैर्निन्द्यते । जीवितादपि निजप्रतिज्ञापालने भव्यैः प्रयत्यते, इति प्रतिज्ञाम्पूरयितुमहमत्राऽऽगतास्मि, त्वमपि यथोचितं 127
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy