SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १८ - अथ मानुष्यदौर्लभ्ये युगस्य दृष्टान्तमाह ( नवमः ) - तथाहि- तस्मिंस्तिर्यग्लोके लवणादय उत्तरोत्तरद्विगुणिता असंख्याता द्वीपसमुद्राः सन्ति । तेष्वन्तिमः स्वयम्भूरमणाख्याऽर्धराजप्रमाणसमुद्रोऽस्ति । तावद्देशावस्थितस्य तस्य पूर्वदिक्प्रान्ते युगं स्थापयित्वा तच्छिद्रे यदि कश्चित्स्वयम्भूरमणस्य पश्चिमदिग्भागस्थितः कीलकं क्षिपे, तदा तत्कीलकं यथा तत्प्राग्दिगवस्थितयुगच्छिद्रे प्रवेष्टुं न शक्नोति, तथैव धर्मं विना वृथा गतमेतन्मनुष्यत्वं पुनः प्राप्तुं कोऽपि न शक्नोति । अतः सर्वैर्धर्म आराधनीयः क्षणमात्रमपि तत्र प्रमादो नैवाऽऽनेतव्यः । सूक्तमुक्तावली १९ - अथ मनुष्यजन्मदौर्लभ्ये परमाणोः दृष्टान्तमाह ( दशमः ) - तथाहि - यदि कश्चित्पराक्रमी देवो महाशैलस्तम्भमञ्जनवपिष्ट्वा तच्चूर्णं कुत्रचित्पात्रे संमील्य पुनस्तन्मेरुशिखरमारुह्य निक्षिपेत्, तदनु दशदिक्षु विकीर्णानां तेषाम्परमाणूनां पुनरेकत्रीकरणं यथा न सम्भवति, तथा धर्मं विना वृथा यातमेतन्मनुष्यत्वं पुनः प्राप्तुं सर्वथाऽसम्भवीति मत्वा धर्म आराधनीयः । ॐ ३ - अथ सज्जनविषये सदय मन सदाई दुःखियां जे सहाई, परहित मति दाई जास वाणी मिठाई । 92
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy