SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली लक्ष्य तदैवैकेनैव बाणेन सर्वाणि चक्राणि विध्यन् राधापुत्रलिकाया वामाक्षि विव्याध | तदा सर्वे लोका मुदमावहन्तस्तं तुष्टुवुः । सा च राजपुत्री तस्याऽधिकण्ठं वरमालां न्यधत्त । सर्वे लोका मुदा तदा जयजयारावं वितेनुः । ततः पाणिग्रहणे कृते तया सह भोगं भुञ्जानः सुरेन्द्रदत्तः पितृदत्तं राज्यमाप । ते च द्वाविंशतिराजकुमाराः शैशवे विनयादिगुणविहीना विद्यां न पेतुः कलाश्च न शिशिक्षिरेऽतो राज्यमलभमानाः पश्चात्तापमेव चक्रुः । कदाचित्तादृशैरपि तैर्दैवबलेन तदपि साध्येत, परन्तु यः प्रमादादिवशगो भूत्वाऽतिदुरापमिदं मानुष्यङ्गमयति तस्य पुनस्तल्लाभो दुर्लभ एवेति ज्ञात्वा सर्वैरपि ज्ञानं लब्ध्वाधर्मेप्रयतितव्यमिति। १७-अथ मनुष्यत्वदौर्लभ्ये कूर्मस्य दृष्टान्तं दर्शयति (अष्टमः)तथाहि-कस्मिंश्चिल्लक्षयोजनप्रमाणे हदे महानेकः कूर्म आसीत् । स चैकदा देवयोगात्समीरणेन जम्बालजालाऽवरोधे दूरीकृतेऽदृष्टपूर्वञ्चन्द्रमण्डलमालोक्य कुतूहलाक्रान्तमानसो निजपरिवारान् तद्दर्शनाय समाह्वातुमन्यत्रागच्छत् । कियत्समयानन्तरं तैः सहागतः स कूर्मस्तत्र पुनर्जम्बालजालाऽवरुद्धे सति बहुधा यतमानोऽपि तन्नैवाऽपश्यत् । तथैव धर्म विना मनुष्यत्वमिदं यस्य याति तस्य पुनस्तदधिगतं नैव भवति । अत एतत्सर्वैर्धर्मोपार्जनेनैव सार्थक्यं नेयम्। - 91
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy