SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ सूक्तमुक्तावली गुण करि गहराई मेरु ज्युं धीरताई, सुजन जन सदाई तेह आनन्द दाई ॥१३॥ इह खलु येषां मनसि सदैव दुःखिनः प्राणिनो दर्शनाद्दयोत्पद्यते । ये च जगज्जीवे बन्धुतां वहन्ति । परहितरतचेतसो विलसन्ति । येषां वचनं I मिष्टतरं तथ्यं लोकद्वयपथ्यमस्ति । निवसन्ति च येषु सर्वे सद्गुणाः । एतादृशा धीराः सज्जनाः सदैव सकलञ्जगतं सुखयन्ति || १३ || जड़ दुरजन लोके दूहव्या दोष देई, मन मलिन न थाए सज्जना तेह तेई । द्रुपद - जनक पुत्री अंजना कष्टभोगे, कनक जिम कसोटी ते तिसी शीलयोगे ॥१४॥ पुनस्तानेव वर्णयति - जगति दुर्जनैरतिदूषिता अपि मनागपि न खिद्यन्ते । न वा तेभ्यः किमपि ते द्रुह्यन्ति । केवलं द्रौपदीसीताऽञ्जनादिवत् सर्वमपि खलकृतं कष्टं सहमानाः सत्पुरुषा निकषोपलघृष्टाकनकानि इवाऽतितरां भान्ति शीलयोगात् ||१४|| २० - अथ सज्जनतोपरि द्रौपद्याः प्रबन्धः तथाहि-तत्र हस्तिनापुरे पाण्डो राज्ञो युधिष्ठिरभीमाऽर्जुननकुलसहदेवाः पञ्च पुत्रा आसन् । पञ्चानामपि द्रौपद्येका भार्याऽऽसीत् । तेषु युधिष्ठिरो राज्यभागभूत् । पाण्डोर्ज्यायान् भ्राता धृतराष्ट्र आसीत् । तस्य दुर्योधनप्रमुखाः शतपुत्रा आसन् । तेषु दुर्योधनो महाकपटकारी क्रूरकर्माऽभूत् । अमी च कौरवनाम्ना प्रथन्ते । ते पञ्च भ्रातरः पाण्डवा इत्युच्यन्ते । 93
SR No.006195
Book TitleSukta Muktavali
Original Sutra AuthorN/A
AuthorJayanandsuri and Others
PublisherRamchandra Prakashan Samiti
Publication Year
Total Pages434
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy