SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ चतुर्विंशतिजिनभवस्तवः। २४१ आसीन्न्यायशुभानगधिपतिर्दासीकृतारिव्रजो नीतिज्ञो नलिनादिगुल्मनृपतिश्चञ्चन्मतिः सदतिः। आदाय व्रतमच्युतेऽमृतभुजां मुख्यो गुरुः श्रेयसे श्रीश्रेयांसजिनादितेयरमणः स्वर्धेनुतुल्यः सताम् ॥१२॥ पद्माभक्रमपाणिरिन्दुवदनः पद्मोत्तरक्ष्मापतिः पुंरत्नं विमलादिबोधसचिवः प्रोद्दामधामा स्फुटम् । कल्पे प्राणतनाम्नि चारुधिषणो देवाधिराजस्ततो देयाहासवपूज्यपादकमलः श्रीवासुपूज्यः शिवम्॥१३॥ भूभूषासुमहापुरीनरपतिः श्रीपद्मसेनाभिधो निःशेषावनिपालपालितयशाः सामन्तवन्धक्रमः । लाला देक्ष्यमवातरद्दमयुतो देवः सहस्रारके श्यामायास्तनुजस्तनोतु नियतं सौख्यानि भव्याङ्गिनाम्॥ राजा पद्मरथः स्वकीयधिषणागीर्वाणभट्टारकः संजातः सकलार्थसाधनपटुक्वर्ण्यमुख्य भवे । देवः प्राणतकल्पगः सुरवधूनेत्रत्रिभागातिथिदिश्याहः कुशलं सुकृत्यकुशलः श्रीमानन्तोऽन्वहम्॥१५॥
SR No.006112
Book TitleJain Stotra Sangraha Part 02
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy