SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ श्रीगुणविजयगणिविरचितः । श्रीनन्दिर्वसुधाधवो नयनिधिर्मुख्ये भवेऽत्यद्भुतः षष्ठे श्रेष्ठमतिः परर्द्धिविजुषि ग्रैवेयको दैवतः । संसाराम्बुनिधौ पतन्तममिते खं किंकर तीर्थराट् पायात्पावनकीर्त्तिकान्तिनिचितः स श्रीसुपार्श्वप्रभुः ॥८॥ श्रीवर्मक्षितिपोऽथ निर्जरवरः सौधर्मवासी ततः सञ्जज्ञे जितसेन नामनिपुणः श्री सार्वभौमोत्तमः । देवेन्द्रो ऽच्युतश्च पद्मनृपतिः श्रीवैजयन्ते मरुत् चन्द्राङ्कः कुरुतात् शिवानि शिवकृत् स प्रीतिमान् प्राणिनाम्॥ २४० श्रीमत्पुष्करपुण्यभूमिषु महापद्माभिधक्ष्माधवः खं राज्यं चिरकालमुज्वलयशा यो पालयद्धीधनः । गीर्वाणस्त्रिदिवेऽनिष्ट दशमे निर्वाणशर्मस्पृहः सुग्रीवक्षितिपात्मभूर्भवाभिदे श्रीपुष्पदन्तो जिनः ॥ १० ॥ विद्वद्वर्ण्यविदेहवच्छविजयाविश्वम्भराविश्रुतः पद्माक्षः क्षितिपालमौलिमुकुटः श्रीपद्मपृथ्वीपतिः । श्रीमत्प्राणतवासिनाकिनिकरालङ्कारचूडामणिलैखोऽथ प्रभुशीतलः प्रथयतात् सिद्धिं सुवर्णप्रभः॥ ११ ॥
SR No.006112
Book TitleJain Stotra Sangraha Part 02
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy