SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ श्रीगुणविजयगणिविरचितः । भूभ" भरतावनौ दृढरथः श्रीभाइलाधीश्वरो दुर्नीतिस्थितिभिज्जयी च विजये वाहाऽशनः सुन्दरः। स्तादस्ताघभवाब्धितारणविधौ सत्कर्णधारः प्रभुमच्चेतोजलबालकाचलविलासी धर्मदन्ताबलः ॥ १६ ॥ श्रीषेणाभिधभूपतिमिथुनिकः सौधर्मकल्पे मरुत् खेटेशोऽमिततेज इन्दुविमलः श्रीप्राणते निर्जरः । सीरी द्वादशकल्पदैवतपतिर्वज्रायुधश्चक्रभृत् --- प्रैवेये त्रिदशो नृपश्च विबुधः शान्त्यै स शान्तिर्जिनः॥१७॥ सिंहो द्विस्ततिकुम्भिकुम्भदलने सिंहावहः काश्यपी कान्तः कान्तगुणौघरत्नजलधिः सर्वार्थसिद्धौ सुरः । श्रीसूरक्षितिपालवंशतिलकः श्रेयोऽम्बुजाहर्मणिः मच्चेतः सदने विशवविरतं श्रीकुन्थुतीर्थाधिपः॥१८॥ लब्धश्लोकधनो नृपो धनपतिर्विद्वेषिदन्तिबजे बिभ्राणः स्फुटपाटवं पटुगतिर्मातङ्गविद्वेषिणः । धर्माराधनतत्परः श्रुतिमतिः सर्वार्थसिद्धौ मरुत् यो जातःशिवतातिरस्तु भविनः स्याद्वादिसौदर्शनः॥१९॥
SR No.006112
Book TitleJain Stotra Sangraha Part 02
Original Sutra AuthorN/A
AuthorYashovijay Jain Pathshala
PublisherYashovijay Jain Pathshala
Publication Year
Total Pages266
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy