________________ श्लो० 135-193] वैराग्यरतिः / अथ स प्रसृमरभक्तिनष्टभ्रान्तिर्बभाण भगवन्तः ! / अनुपकृतोपकृतो मे नाथा यूयं विनाथस्य // 165 / / सूदः प्राह गुरुरथो नाथः सर्वस्य जिनमहाराजः / अस्माभिस्तु तदाज्ञानुवर्तिभिर्भूयते सततम् // 166 // सामान्यतोऽपि येऽमुं सेवन्ते ते क्रमेण शिवभाजः / ये तु विशिष्य भजन्ते तेषामचिराद् भवति मुक्तिः / / 167 / / ये पापिष्ठाः सत्त्वा जानन्ति न तेऽस्य नाममात्रमपि / नूनमिह भाविभद्रान् स्वकर्मविवरः प्रवेशयति // 168 // योगावश्चकशक्त्या त्वमपि विभुं वस्तुतः प्रपन्नोऽसि / इच्छामो योजयितुं विशेषभक्तावथास्यैव // 169 // सा च गदतानवात् स्यात् क्षणे क्षणे तत्त्रयोपभोगेन / तत् स्थेयमत्र भवता भुञ्जानेन त्रयमिदानीम् // 170 // दास्यति च तद् दया मे तद् भुक्त्वा त्वं विशेषतो नृपतिम् / आराध्य तत्प्रभावाद् भविताऽसि नृपोत्तमप्रकृतिः॥१७१॥ प्रमुदितमनास्ततस्तद्वचनैरतिकोमलैः प्रणयगर्भः / प्रादुष्कृत्य स्वाशयमाह मेकोऽनुगुरुसूदम् // 172 // नालं पापस्त्यक्तुं कदन्नमिति तत् समादिशाऽन्यदतः / स प्राह नैतदर्थो यत्नो मे तेन मा भैषीः // 173 // अत्याजयं पुराऽहं तवैव हितकाम्यया कदन्नमिदम् / तुभ्यं न रोचते चेद् भुङ्क्वाऽनं सत्यपीह तदा // 174 // यच्च प्रागुपदिष्टं तदत्र भवताऽवधारितं किञ्चित् ? / स प्राह नावधारितमतिमूर्छित-मत्तसदृशेन // 175 / / / नालमनाद्यभ्यासाद् धनादिमूर्छा वदत्स्वपि भवत्सु / भक्षितदधि-वृन्ताको निद्रामिव हातुमहमासम् // 176 // उद्वेजिका तवाऽभूत् प्रतिबोधकगीर्मम प्रसुप्तस्य / प्राप्तस्तन्माधुर्यं विभावयंश्चान्तराह्लादम् // 177 / / आहूतः पूर्वमहं लास्यत्यन्नं ममाऽयमिति भीतः / अञ्जितनेत्रस्तु बलान्नश्यामीत्याशयाकुलितः // 178 // तीर्थोदकस्य पानाच्छैत्यं गमितो यदा पुनः पूज्यैः / परमोपकारकत्वं युष्मासु तदा मयाऽवगतम् // 179 // परिहर कदनमिदमिति गदिते पर्याकुलः पुनर्जातः / स्वयमेष न लाति परं त्याजयतीत्युत्तराशक्तः // 180 // सत्यस्मिन् मे भोज्यं देहीत्युक्ते त्वया दयाद्वारा / दापितमेतद् भुक्त्वा ज्ञाता भवतोऽतिवत्सलता / / 181 // वक्ति हि तत्त्वेनाऽसौ शक्तोऽस्मि न मोचने कदन्नस्य / इति चिन्ताकुलितस्य च भवद्वचो मे न हृदि लग्नम् // 182 // न त्या जयामि साम्प्रतमिति वचनेन त्वनाकुलो जातः / तद् ब्रूत साम्प्रतं यन्ममेदृशस्याऽपि कर्त्तव्यम् // 183 // इत्याकर्ण्य दयादयः प्राह स्वाञ्जन-जला-इन्नमाहात्म्यम् / योग्या-ऽयोग्यविभागं तदानस्योक्तमपि राज्ञा // 184 // योग्येभ्य एव दत्तं गुणाय खलु भेषजत्रयं भवति / दोषायाऽयोग्यस्य तु दत्तं तद् दुग्धमिव फणिनः // 185 // इह भवनेऽयोग्याश्च स्वकर्मविवरप्रवेशिता न स्युः / दृष्ट्या पश्यति राजा नैव कथञ्चित् प्रविष्टांश्च // 186 // . अक्लेशेन च येषां मनसीदं भेषजत्रयं रमते / तेऽत्र सुसाध्या बोध्या यत्नशतैः कृच्छ्रसाध्यास्तु // 187 // येभ्यो न रोचते तु क्रमेण विनियोज्यमानमप्येतत् / द्वेष्टारो दातृणां नराधमास्ते किलासाध्याः // 188 // नृपदृष्टो लक्षणतस्तत्र त्वं कृच्छ्रसाध्य एवासि / बलिनस्तवाङ्गरोगा गदक्षयो नातियत्नमृते // 189 // तद् वत्स ! प्रयतः सन् निराकुलोऽत्रैव नृपगृहे तिष्ठ / लात्वा कन्याहस्ताद् भुञ्जानो भेषजत्रितयम् // 190|| प्रतिपन्ने तद्वचनं तस्मिन् परिचारिका दया विहिता / भुङ्क्ते तद्दत्तमभून्न चाऽऽदरः स्वान्नमूर्छातः // 191 // उपदंशतां व्रजति तन्मोहेन कुभोजनं तु बहु भुङ्क्ते / विनियुङ्क्ते च कदाचित्तद्वचसैवाऽञ्जनं च जलम् // 192 // प्रतिदिनमेवाऽऽद्रियते धनसाधनमन्तराऽन्तरा तु गृही / भजते गुरूपरोधात् विरतिं ज्ञानं च सम्यक्त्वम् // 193 // 1. द्रमको गुरूपकृतम् // 172 // 2. ध्या यत्नक्रमबोधसाध्यास्तु // 3. परिभुङ्क्ते च //