________________ महोपाध्यायश्रीयशोविजगणिविरचिता [प्रथमः सर्गः अथ तं कदन्नमूर्छितमभिवीक्ष्य मुहुर्मुहुर्दशं ददतम् / तत्पात्रे तद्भावं ज्ञात्वाऽऽह स धर्मबोधकरः // 135 // कन्याप्रदीयमानं नाऽऽदत्से किं नु मूर्ख ! परमान्नम् ? / किं च कदन्ने गृद्धः स्वयं स्ववैरित्वमाचरसि / / 136 // अस्माद् भवनाद् बाह्याः सत्त्वास्तिष्ठन्ति दुःखिता बहवः / न च ते प्रभुणा दृष्टा इति नस्तेष्वादरो नास्ति / / 137 / / त्वं पुनरेतद् दृष्ट्वा मुदितस्तेनाऽसि वल्लभो नृपतेः / तत् त्वयि दयालवः स्मो भृत्या भर्तुर्मनोभिज्ञाः // 138 // प्रभुरयममूढलक्षो नाऽपात्रे दृग्विलासमाधत्ते / व्यभिचारितश्च मार्गावतारहेतुस्त्वयाऽस्माकम् // 139 // आदत्स्व ज्ञानफलं तद् व्रतभिक्षां त्यज स्वदौःशील्यम् / पश्यसि किं न विमोहानिहाऽपि शमिनः सुधातृप्तान्? // 140 // इत्यभिहितः स बाढं धृतविश्वासोऽपि रसवतीनाथे / भजते तस्य कदन्नत्याजनवचनेन विह्वलताम् // 141 // दैन्यमवलम्ब्य स पुनः प्राह वचो भगवतां प्रमाणमिदम् / क्लेशेनार्जितमेतत् त्यक्तुं तु न भोजनं शक्तः // 142 // निर्वाहकमिदमशनं मम भवतां त्वेकदिवसमुपयुक्तम् / तत् सत्यस्मिन् देयं यदि दित्सा भवति पूज्यानाम् // 143 / / अथ सूदो धर्मगुरुर्दध्यौ ही ! मोहज़म्भितं दुष्टम् / यदयं कदन्नलुब्धः परमान्नं मन्यते तृणवत् // 144 // तदपि तपस्विनमेनं मोहापोहाय शिक्षयामि पुनः / पुनरेति तमःपटलं रविरेव पुनर्विनाशयति // 145 / / जीवस्य देशना खलु योग्यत्वमनेकशः कृता कुर्यात् / मृत्कुम्भोऽपि शिलायां पदमाधत्ते न किमुपायात् 1 // 146 // ध्यावेति तेन भगितं भद्र ! न जानासि किं तव शरीरे / एतत्कदन्नमूला रोगाश्चित्ते विपर्यासाः ? // 147|| स्वयमेव हास्यसीदं स्वादं ज्ञास्यसि यदा मदन्नस्य / न हि मालतीरसज्ञो भ्रमति भ्रमरः करीरवने // 148 // आश्चर्यकारि दृष्टं किं वाऽञ्जन-सलिलयोन सामर्थ्यम् ! / मुञ्चेदं विश्रब्धस्तत् कल्याणं गृहाणेदम् / / 149 // क्लेशार्जितमिदमिति या त्यागाबुद्धिर्न साऽपि तव युक्ता / यदिदमत एव हेयं क्लेशाङ्गं क्लेशरूपं च // 150 // वैषयिकसुखाभासे चारित्रसुखं स्वभावजं त्यक्त्वा / बध्नाति रतिं न कृती सुकृती यदुवाच वाचकराट् // 151 // भोगसुखैः किमनित्यैर्भयबहुलैः काङ्क्षितैः परायत्तैः ? / नित्यमभयमात्मस्थं प्रशमसुखं तत्र यतितव्यम् // 152 // निर्वाहकत्वमुक्तं प्रकृतिगतेयत् पुनः कदनस्य / कादाचित्कतया मत्परमान्नस्याऽतथात्वं च / / 153 // तदपि न युक्तमपथ्यं निर्वाहे न पटु यत् कदन्नं ते / मम तु न कादाचित्कं वीर्योल्लासेन परमान्नम् // 154 // विगलितभवप्रपञ्चः प्रशान्तवाही परीषहैरजितः / मुनिरुपचितस्ववीर्यो निर्विघ्नं याति शिवसदनम् // 155 // तत्राऽनन्तं कालं तिष्ठति भय-खेद-रोगनिर्मुक्तः / तत्प्रापकं मदन्नं तस्मानिर्वाहकमवेहि // 156 / / इदमेव तुष्टि-पुष्टिकृइतिवीर्यविवर्धकं गदच्छेदि / तदिदं गृहाग भूया भुक्त्वेदं नृपतिरिव सुखितः // 157|| स प्राह बलीवर्दो गलिरिव पादप्रसारिकां कृत्वा / नाऽलं विषयत्यागे सति तस्मिन् दीयतां देयम् // 158 // ज्ञात्वा तन्निर्बन्धं कृपापरो रसवतीपतिर्दध्यौ / सत्यप्यस्य कदन्ने देयं देशोपरतिरन्नम् // 159 // पश्चाद् विज्ञातगुणः स्वयमेव विहाय विषयभोगमसौ / लास्यति शुद्धं चरणं न धैर्यकृद् विषयमाधुर्यम् / / 160 // अपसिद्धान्तो न ममाऽप्येवमुपाये प्रवर्त्तमानस्य / विनिरूप्य सर्वविरतिं कथनीया देशविरतियत् // 161 // प्राक् तत्कथने हि भवेत् तत्प्रतिबद्धं दृढं मनः श्रोतुः / इत्थं चानुमतिः स्यात् सूक्ष्मप्रागातिपातादौ // 162 / / प्रददौ परमान्नलवं ध्यात्वेद संज्ञिता दया तेन / सत्येव तत्कदन्ने भुक्तं तेनाऽऽत्मनः पात्रे // 163 // तद् देशविरतिरूपं परिणममानं गदक्षयं चक्रे / गलिता क्षुधाऽञ्जन-जलोद्भवमजनि सुखं त्वनन्तगुणम् // 164 //