________________ श्लो० 75-134 ] वैराग्यरतिः / अथ गच्छतः प्रतिश्रयमनुदिनमनुपाधिमुनिगुणालोकात् / या भवति विवेककला सा नष्टा चेतनाऽऽयाता // 106 // नेत्रोन्मीलनमेतद् या भूयो भवति धर्मजिज्ञासा / सा नेत्ररोगशान्तिः प्रतिकलमज्ञानविलयो यः // 107 // अत एवाऽस्याऽऽह्लादो विलयादान्ध्यस्य विस्मयोल्लासः / विषयेषु तत्त्वबुद्धिर्भिक्षारक्षाऽऽशयानुगमः // 108 // व्यवहारश्रुतलाभेऽप्यधिगमसम्यक्त्वशुद्ध्यभावेन / प्रथमदशायां सम्यग्दृशोऽपि भवतीदृशी बुद्धिः // 109 // तेनाऽतिचारविधुरो मृगयिष्यन्ते नु मामिमे मुनयः / इत्याशङ्कय न बौढं परिचयमेषामसौ कुरुते // 110 // पातुमथाऽऽह्वास्त गुरुदृष्ट्वाऽञ्जनजातचेतनं तमपः / तत्वप्रीतिकृतस्ता धृतास्ततोऽनिच्छतोऽपि मुखे // 111 / / द्रव्यश्रुतसम्प्राप्तौ सम्यक्त्वगुणोपवर्णनं सम्यक् / उदकनिमन्त्रणकल्पं धर्माचार्यस्य विज्ञेयम् // 112 // दृष्टत्यागा-ऽदृष्टाऽऽश्रयगाभ्यां किं स्ववञ्चनेन मम ? / इति या शङ्का श्रोतुस्तुच्छत्ववशादनिच्छेयम् // 113 // तत्प्रतिबोधाय गुरुः कथाप्रसङ्गेन वर्णयत्यर्थम् / कामं च तत्र हृष्यति सोऽभ्यस्तार्थानुसन्धानात् // 114 // श्रवणाभिमुख्यकरणात् सफलोऽयं यत्न इति गुरुः प्रतियन् / कामार्थहेतुभूतं धर्म भावेन वर्णयति // 115 // यस्तुल्यसाधनानां फले. विशेषोऽपहेतुको नाऽसौ / इति सुख-दुःखनिदाने धर्मा-ऽधर्मो दुरपलापौ // 116 // तत्राऽखिलभावानां हेतुरधर्मः किलाऽप्रशस्तानाम् / धर्मस्तु सुन्दरागां तेनाऽसावेव पुरुषार्थः // 117 / / अथ स प्राह न धर्मः कथं नु कामार्थवद् दृशो विषयः ? / गुरुराह भद्र ! पश्यति विवेक्यमुं नैव मोहान्धः / / 118 // त्रिविधो धर्मों हेतु-स्वभाव-कार्यप्रभेदतो गदितः / सदनुष्ठानं हेतुस्तत्रेदं दृश्यते व्यक्तम् // 119 // द्विविधः पुनः स्वभावो निर्दिष्टः साश्रवस्तदितरश्च / आद्यः सत्पुण्यात्मा विनिर्जरात्मा द्वितीयस्तु / / 120 // अस्मादृशाऽनुमेयो द्विविधोऽययमेष योगिभिर्दृश्यः / कार्य सुन्दरभावाः प्रत्यात्म स्फुटतरास्ते च // 121 // शास्त्रानुभवज्ञानात् त्रयमिदमिह पश्यता न किं दृष्टम् ? / पश्यामीत्यभिलापे तन्त्रं खलु विषयताभेदः // 122 // इतरद्वयसम्पादकमिह सदनुष्ठानमेव चाऽऽदेयम् / गृहि-यतिधर्मविभेदाद् द्विविधं सम्यक्त्वमूलं तत् // 123 / / पुनराहाऽसौ भगवन् ! किं सम्यक्त्वं ? न तन्मयाऽवधृतम् / गुरुराह भद्र ! देवः सर्वज्ञो ध्वस्तभावरिपुः // 124 // . तदभिहिताश्च पदार्था जीवा-ऽजीवादयो नवावितथाः / रत्नत्रयं च धर्मस्तदभिहितो वम मोक्षस्य // 125 // तद्वर्त्तिनश्च गुरवो वन्द्या इति बुद्धिरेव सम्यक्त्वम् / शङ्कादिदोषरहितं गम्यं प्रशमादिभिर्लिङ्गैः // 126 // इति कथयता भगवता तीर्थाम्भः पायितो बलेनाऽसौ / मोहक्षयोपशमतो नष्टप्रायस्तदोन्मादः // 127 // अथ निर्गतदाहार्त्तिर्दध्यौ हा ! कथमयं महात्माऽपि / वञ्चकबुद्ध्या दृष्टो दृक्पटुतास्वास्थ्यहेतुर्मे / / 128 // याऽयोग्येऽपि मयि कृपा योग्येष्विव भगवतोऽजनि प्रथिता / सर्वत्र वर्षतः खलु जलमेषा जलमुचः प्रकृतिः // 129 // इति भावयन् विमुञ्चति रौद्रत्वमसौ मदान्धतां त्यजति / ऋजुतां गच्छति रागं शिथिलयति तनोति न द्वेषम् / / 130 // अभिनिविशते च तत्वे तत्त्वधियं त्यजति धन-कलत्रादौ / लक्षयति गुणविशेष स्वदोषधारामनुस्मरति // 131 // अभिसंस्कारप्रभवाः कुविकल्पास्तस्य कुसमयोल्लसिताः / चण्डपवनाद् घना इव गुरुसङ्गादेव परिगलिताः // 132 // अधिगमदर्शननिहताः सहजाश्चाशङ्कनीयशङ्काद्याः / धन-विषयादिषु मूर्छा दिग्मोहसमा तु न निवृत्ता // 133 / / यदशगोऽयं जीवः शास्त्रार्थज्ञोऽपि मूर्खतां भजते / पश्यन्नपि च न पश्यति कर्तुं शक्नोति न निवृत्तिम् // 134 // 1. आहादोऽस्य ज्ञेयो विलयादान्ध्यस्य शमलवानुभवः / विष // 2. बाढं संस्तौति स नंष्टुकाम इति // 110 // 3. ययुरधिगमसम्यक्त्वात् सह //