SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ पटले,.२३ श्लो.] रक्षाचक्रपूर्वङ्गमभूम्यादिसंग्रहमहोद्देशः 25 विष्कम्भमानेनोर्चे ब्रह्माऽधो विष्णुरिति हंसगरुडस्थौ भाव्यो। तथा झिझीनिष्पन्नौ नैर्ऋत्यवायू पूर्वाग्नेययोः कृष्णवर्णी प्रेतमृगासनस्थौ। एवं दक्षिणे नैऋत्ये दृढनिष्पन्नौ यमवैश्वानरौ महिषमेषस्थौ। उत्तरेशा[174 a]ने भुभूनिष्पन्नौ समुद्रशङ्करौ मकर वृषस्थौ। पश्चिमे वायव्ये इन्द्रयक्षौ ललनिष्पन्नौ हस्तिविमानस्थाविति। एवं दिक्पालान् प्राकारादौ भावयेत् / ततो ग्रहचक्रं स्फारयेत् प्राकाररक्षार्थम्, पूर्वोक्तसूर्यमण्डले गजडबददो ध्यात्वा तेषु गगानिष्पन्नौ राहुकालाग्नित्रि प्राकाराणां विष्कम्भमानेनोधिः शून्यमण्डलारूढौ भाव्यौ / तथा जिजीनिष्पन्नौ चन्द्रसूर्यो वायुमण्डलस्थौ पूर्वाग्नेययोः। दृडनिष्पन्नौ बुधमङ्गलौ अग्निमण्डलस्थौ दक्षिणे नैऋत्ये। बुबुनिष्पन्नौ शुक्रबृहस्पती उत्तरेशाने। तोयमण्डल स्थौ द्लृद्लनिष्पन्नौ केतुशनिश्चरौ पश्चिमवायव्ययोः पृथ्वीमण्डले भाव्यौ। 10 इति प्राकारबाह्ये रक्षपालग्रहाः।। _____ ततः पञ्चप्राकाररक्षार्थ नागराजानं 'भावयेदिति / तत्र सूर्यमण्डले खछठफथथो भाव्याः। तेषु खखानिष्पन्नौ जयविजयौ पञ्चप्राकाराभ्यन्तरविष्कम्भमानेनो र्वाधः शून्यमण्डलस्थौ भाव्यौ। एवं छिछीनिष्पन्नौ कर्कोटकपद्मौ वायुमण्डलस्थौ पूर्वाग्न्योः तथा निष्पन्नौ वासुकिशङ्खपालौ अग्निमण्डलस्थौ दक्षिणनैऋत्ये तथा 15 फुफूनिष्पन्नौ अनन्तकुलिको तोयमण्डलस्थौ उत्तरेशानयोः, थ्लुथ्लनिष्पन्नौ महापद्मतक्षको पश्चिमे वायव्ये पृथ्वीमण्डलस्थौ भाव्यौ / ____ततः पञ्चप्राकारबाह्ये रक्षार्थं भूतासुरान् भावयेदिति / तत्र सूर्यमण्डले कचटपततो ध्यात्वा कूटागारान् तेषु बाह्यप्राकारविष्कम्भमानेनोवें वेताडोऽधः "कुम्भाण्ड एतौ ककानिष्पन्नौ शून्यमण्डलस्थौ भाव्यौ। पूर्वे किन्नरो वायुस्थः"श्वानमुखः चिनिष्पन्नः। 20 अग्नौ किम्पुरुषः काकमुखः चीनिष्पन्नः" तथा दृट्टनिष्पन्नो गन्धर्वः शूकरमुखः "भूतो गृध्रमुखो दक्षिणे नैऋत्ये अग्निस्थः। उत्तरेशाने तोयस्थो राक्षसो व्याघ्रमुखः प्रेत उलूक- T375 मुखः पुपूनिष्पन्नः। पश्चिमे वायव्ये भूमिस्थः "लुल्लनिष्पन्नोऽपस्मारो जम्बूकमुखः [174b] गरुडो गरुड एवेति रक्षाचक्रम् / . 1. ख. च. छ. वृषभ, भो. Khyu mChog / 2. भो. Nai La (अन्तः) इत्यधिक: पाठः / ३.क. ख. ग. छ. प्रकारा० / 4. क. ख. ग. च. छ. 'मण्डल' नास्ति / 5. भो. dKyil hKhor La gNas Paho ( मण्डलस्थी)। 6. भो. sPro Bar Byaho ( स्फारयेत् ) / 7. क. ख. छ. धैऽधः / 8. च. कर्कोट / 9. ग. च. कूटाकारान्, भो. brTsegs Pa ( कूटान् ) / 10. ख. ग. छ. कुष्माण्ड। 11. भो. 'वायुस्थः' नास्ति / 12. भो. rLui La gNas ( वायुस्थः ) इत्यधिकः पाठः / 13. क.ख. छ. ततो / 14. ग. च्ल च्ल /
SR No.004304
Book TitleVimalprabha Tika Part 02
Original Sutra AuthorN/A
AuthorSamdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1994
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy