SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ 10 विमलप्रभायां [ अभिषेककायवाञ्चित्तधर्म विशुद्धानां कूटागारत्रि'प्राकारपञ्चप्राकाराणां ज्ञानाकाशवायुतेजउदकपृथ्वीषड्धातुजनिताः क्रोधराजरूपा रूपदशदिक्पालग्रहनागभूताः षड्वर्गात्मका रक्षापाला अभ्यन्तरबाह्यतः संपुटयोगेन देयाः / पृथ्वीतोयोद्भूताः कायधातुरक्षकाः, अग्निवायुधातूद्भूता वाग्धातुरक्षकाः, शून्यज्ञानधातूद्भूताः सर्वत्र चित्तधातुरक्षकाः / अतो भगवतो नियमः। तस्माद् यत्किश्चिविष्टं गुरुनियमयुतं साधकैः साधनीयमिति नियमः // 23 // त्रिप्राकारांस्त्रिवज्रेमहिवलयगतान् दूरदृष्टयावसाने प्रातश्छायावसाने क्षितितलनिलयादम्बरे वज्रकूटम् / मध्येऽब्जं सूर्यहस्तं भवति युगकरा कणिका सासना च आत्मानं तस्य मूनि व्यपगतकलुषं योगिना भावनीयम् // 24 // इदानीमेषां क्रोधादीनां प्रत्येकं बलिमन्त्रपदानि भवन्ति / तद्यथा-ॐ आः हूँ होः उष्णीषसुम्भनिसुम्भविघ्नान्तकनीलदण्ड प्रज्ञान्तकटक्किराजपद्मान्तकअचलयमान्तकमहाबलेभ्यः सपरिवारेभ्य इदं बलिं गन्धं पुष्पं धूपं दीपम् अक्षतं ददामहे, ते चागत्य सपरिवाराः शीघ्रमिदं बलिं गृह्णन्तु खादन्तु पिबन्तु जः हूँ वं होः संतृप्ताः सर्वसत्त्वानां शान्ति पुष्टिं रक्षावरणगुप्तिं [1754] कुर्वन्तु हुं हूँ फट् वज्रधर आज्ञापयति स्वाहा इति' सर्वक्रोधबलिमन्त्रः / तथा आकाशादिकृत्स्नसिद्धानां बलिमन्त्रपदानि-ॐ आ: हूँ होः आकाशवायुतेजउदकपृथ्वीसाधितेभ्यः सपरिवारेभ्यः' इदं बलिं गन्धं पुष्पं धूपं दीपम् अक्षतं ददामहे / तें चागत्य सपरिवाराः शीघ्रमिदं बलिं गृह्णन्तु खादन्तु पिबन्तु जः हूँ वं होः संतृप्ताः सर्वसत्त्वानां शान्ति पुष्टिं रक्षावरणगुप्तिं कुर्वन्तु हुं हूं फट् वज्रधर आज्ञापयति स्वाहा / ततो दिक्पालानां बलिमन्त्रपदानि-ॐ आःहूँ होः ब्रह्मविष्णुनैऋत्यवायुयमाग्निसमुद्रेश्वरेन्द्रयक्षेभ्यः सपरिवारेभ्य इदं बलिं गन्धं पुष्पं धूपं दीपम् अक्षतं ददामहे, ते चागत्य सपरिवाराः शीघ्रमिदं बलिं गृह्णन्तु "खादन्तु पिबन्तु जः हूँ वं होः संतृप्ताः सर्वसत्त्वानां शान्ति पुष्टिं रक्षावरणगुप्तिं कुर्वन्तु हुं हूँ फट् वज्रधर आज्ञापयति स्वाहा। ततो ग्रहबलिमन्त्रपदानि-ॐ आःहूँ हो राहुकालाग्निचन्द्रसूर्यबुधमङ्गलशुक्रबृहस्पतिकेतुशनिभ्यः सपरिवारेभ्य इदं बलिं गन्धं पुष्पं धूपं दीपम् अक्षतं ददामहे, ते चागत्य सपरिवाराः शीघ्रमिदं बलिं गृह्णन्तु खादन्तु पिबन्तु जःहूँ मैं होः संतृप्ताः सर्वसत्त्वानां शान्ति पुष्टिं रक्षावरणगुप्तिं कुर्वन्तु हुँ हूँ फट् वज्रधर आज्ञापयति स्वाहा / / ततो नागबलिमन्त्रपदानि-ॐ आःहूँ होः जयविजयपद्मकर्कोटकवासुकिशङ्खपालकुलि 15 1. ग. प्रकार / 2. क. ख. छ. रूपरूप / 3. क. ख. छ. हो / 4. ख. 'दण्ड' नास्ति / 5. क. 'खादन्तु' नास्ति, छ. 'पिबन्तु' नास्ति / 6. क. 'इति सर्वक्रोधबलिमन्त्र"वज्रधर आज्ञापयति स्वाहा' नास्ति / 7. छ. नास्ति। 8. छ. नास्ति / 9. छ. फट् फट् / 10. क. 'खादन्तु' नास्ति /
SR No.004304
Book TitleVimalprabha Tika Part 02
Original Sutra AuthorN/A
AuthorSamdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1994
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy