SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ विमलप्रभायां [ अभिषेकयुगैर्यमान्तकादयश्चत्वारः, रसैरुष्णीषादयः षडिति। अतः सूर्यस्य ऋणधनभेदेन सूर्यस्थाः सर्वे, वा तथा तिथौ धनऋणभेदेन सर्वे चन्द्रस्थाः। एवं कायभेदेन दिक्षु चन्द्रस्थाः, विदिक्षु सूर्यस्थाः, तथा भावभेदेन विदिक्षु चन्द्रस्थाः, दिक्षु सूर्यस्थाः, तथा पश्चिमे दक्षिणे सूर्यासनस्थाः, उत्तरे पूर्व चन्द्रासनस्था इति रविकाभेदेन नियमः। तेन यथाभिरुचिना मन्त्री क्रोधवृन्दं स्थापयेदिति नियमः। 10 एवं दीर्घहा कारनिष्पन्नं सुम्भराजं नीलवणं वज्रभूमितले सूर्ये स्थापयेद् दक्षिणकर्णद्वारेण निश्चार्य इति। [173 b] एवं यिकारनिष्पन्नं विघ्नान्तकं वामनासाद्वारेण निश्चार्य कृष्णवर्ण पूर्वारे चन्द्रमण्डले स्थापयेदिति सूर्ये वा। तथा यीकारनिष्पन्नं नीलदण्डं कृष्णं दक्षिणनासाद्वारेण निश्चाग्नेियारे सूर्ये स्थापयेच्चन्द्रे वा, र कारनिष्पन्न प्रज्ञान्तकं रक्तं वामचक्षद्वारेण निश्चार्य दक्षिणारे चन्द्रमण्डले स्थापयेत सूर्ये वा, तथा रकारनिष्पन्नं टक्किराज रक्तं दक्षिणचक्षुरेण निश्चार्य नैऋत्यारे सूर्ये स्थापयेच्चन्द्र वा। तथा वुकारनिष्पन्नं पद्मान्तकं शुक्लं जिह्वामुखेन निश्चार्य उत्तरे चन्द्र स्थापयेत् सूर्ये वा / तथा वूकारनिष्पन्नम् 'अचलं शुक्लं मूत्रद्वारेण निश्चार्य "ईशानारे 'सूर्ये चन्द्रे वा स्थापयेत् / तथा ल्लकाराक्षरनिष्पन्नं यमान्तकं पीतं पायुद्वारेण निश्चार्य पश्चिमारे चन्द्र सूर्ये वा स्थापयेत् / तथा ल्लकाराक्षरनिष्पन्नं महाबलं पीतं वज्रोष्णीषद्वारेण निश्चार्य वायव्यारे सूर्ये चन्द्रे वा स्थापयेदिति / अथ सर्वे सूर्यमण्डले स्थापनीया मन्त्रिणा लघुतन्त्रानुमतेनेति / एवं गर्भचक्रन्यासः / ततः कूटबाह्ये ब्रह्मकायिकादीन् पृथ्वीकृत्स्ना दीन् स्फारयेदिति / अत्र प्रत्याहारपाठेन हयरवला इत्युक्ताः, ञणमना'° उच्यन्ते-"तत्र हृदये सूर्यमण्डले ङत्रणमननः(नान्), कूटरूपेण ध्यात्वा "तेष्वाकाशकृत्स्नौ पूर्वोक्तद्वाराभ्यां निश्चार्य ङङाक्षरोत्पन्नौ कूटोय सुम्भाधः शून्यमण्डलस्थौ भावयेदिति / एवं वायुकृत्स्नौ भित्रीनिष्पन्नौ पूर्वाग्नेययोर्वायुमण्डले भाव्यौ, एवं तथा तेजःकृत्स्नौ गृणनिष्पन्नौ दक्षिणनैर्ऋत्ययोरग्निमण्डले भाव्यौ, एवं मुमूनिष्पन्नौ" तोयकृत्स्नौ उत्तरेशानयोस्तोयमण्डले भाव्यौ. तथा लल्लनिष्पन्नौ पथ्चीकत्स्नौ पश्चिमवायव्ययोः पथ्वीमण्डले भाव्याविति। ततो घझढभधधः "कुटाकारान् "विभाव्य तेषु पुनर्दशदिक्पालान् स्फारयेदिति / घघाभ्यां निष्पन्नौ हरितनीलौ ब्रह्मा विष्णुश्च प्राकार 1. क. ख. छ. हाकारं / 2. क ख. छ. 'कृष्णं नास्ति / 3. भो. Ni Mahi gDan La (सूर्यासने) / 4. ख. टर्किराजं / 5 भो. Zla Bahi gDan La (चन्द्रासने) / 6. छ. 'अचलं' नास्ति / 7. ग. ईशाने / ८.च. सूर्ये स्थापयेत् चन्द्रे वा / 9. क. कृष्णा / 10. ख. ग. छ 'न' अधिकम / 11. भो. De bSin Du hDir (तथा अत्र)। 12. च. 'तेषु " तोयकृत्स्नो उत्तरे' नास्ति / 13. ग. द्वारा / 14. ख. 'निष्पन्नौ' नास्ति / 15. ग. कूटरूपां, छ. कूटागारां / 16. भो. bsGom Par Bya Sin (भाव्य)।
SR No.004304
Book TitleVimalprabha Tika Part 02
Original Sutra AuthorN/A
AuthorSamdhong Rinpoche, Vajravallabh Dwivedi, S S Bahulkar
PublisherKendriya Uccha Tibbati Shiksha Samsthan
Publication Year1994
Total Pages280
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy