________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [१४],
मूलं [--] / गाथा ||४१-४८|| नियुक्ति: [३७३...]
(४३)
प्रत
सूत्रांक
4-5
॥४१-४८||
दह्यमानमिव दखमानं न 'बुध्यामहे' नायगच्छामो रागद्वेपावमिरिव रागद्वेषाग्निस्तेन, किं तत् ?-'जगत् प्राणिसमूह, यो हि सविवेको रागादिमांश्च न भवति स दावानलेन दह्यमानानन्यसत्त्वानवलोक्य अहमप्येवमनेन दहनीय इति तद्रक्षणोपायतत्पर एव भवति, न तु प्रमादवशगः सन् प्रमोदते, यस्त्वत्यन्तमज्ञो रागादिमांच स आयतिमचिन्तयन् हृष्यति न तु तदुपशमनोपाये प्रवर्तते, ततो वयमपि भोगापरित्यागादेवंविधान्येवेति भावः। ये त्वेवंविधा न भवन्ति ते किं कुर्वन्तीत्याह-'भोगान् मनोजशब्दादीन् 'भोच'त्ति 'भुक्त्वा' आसेव्य पुनरुत्तरकालं| 'वान्त्वा च' अपहाय विपाकदारुणत्वालघु:-वायुस्तद्वद्भूतं-भवनमेषां लघुभूताः, कोऽर्थः -वायूपमाः तथाविधाः सन्तो विहरन्तीत्येवंशीलाः लघुभूतविहारिणः-अप्रतिवद्धविहारिण इत्यर्थः, यद्वा लघुभूतः-संयमस्तेन विहन्तुं शील येषां ते तथाविधाः, आ-समन्तान्मोदमाना हृष्यन्त आमोदमानाः, तथाविधानुष्ठानेनेति गम्यते, गच्छन्ति विव/क्षित स्थानमिति शेषः, क इव ?-'दिया कामकमा इय'त्ति इवशब्दो भिन्नक्रमस्ततो द्विजा इव-पक्षिण इय काम:अभिलापस्तेन कामन्तीति कामक्रमाः, यथा पक्षिणः स्वेच्छया यत्र यत्रावभासते तत्र तत्रामोदमाना भ्राम्यन्ति एवमेतेऽप्यभिष्वङ्गस्य परतन्त्रताहेतोरभावाद्यत्र यत्र संयमयात्रानिर्वहणं तत्र तत्र यान्तीत्याशयः । पुनर्वहिरास्थां निराकुर्वन्त्याह-'इमे' इत्यनुभूयमानतया प्रत्यक्षाः शब्दादयः, 'चः' समुच्चये 'बद्धाः' नियन्त्रिता अनेकथोपायै रक्षिता इत्यर्थः, एते किमित्याह-स्पन्दन्त इव स्पन्दन्ते अस्थितिधर्मतया, ये कीरश इत्याह-'मम हत्थजमाग
दीप अनुक्रम [४८२-४८९]
JanEducatamanna
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~818~