SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [२५] दीप अनुक्रम [३८] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः) वक्षस्कार [२], मूलं [२५] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः भीजम्बू. २२ कृत्वा देवलोकेषु-ईशानाम्तसुरलोकेषूत्पद्यन्ते, स्वसमहीना युष्करेष्वेव तदुत्पत्तिसम्भवात् अत्र कालमास इति कथनेन तत्कालभाविमनुजानामकालमरणाभावमाह, अपर्यातकान्तर्मुहूर्त्तकालानन्तरमनपवर्त्तनीयायुष्कत्वात्, अत्राह कश्चित् ननु सर्वथा वर्त्तमानभवायुःकर्मपुद्गलपरिशाटकालस्यैव मरणकालत्वात् कथमकालमरणमुपपद्यते, यद| भावो वर्त्तमानसमायां निरूप्यते इति चेत्, सत्यं द्विधा ह्यायुर्नरतिरश्चां-अपवर्त्तनीयमनपवर्त्तनीयं च तत्राचं बहुकालवेद्यं सत्तथाऽध्यवसाययोगजनितश्लथबन्धन बद्धतयोदीर्णसर्वप्रदेशाप्रमपवर्त्तना करणवशादल्पीयः कालेन रज्जुदहनन्यायेन निवासोन्यायेन मुष्टिजलन्यायेन वा युगपद्वेद्यते, इतरन्तु गॉढबन्धनवद्धतयाऽनपवर्त्तनायोग्य क्रमेण वेद्यते, तेन बहुषु वर्त्तमानारकोचितमनपवर्त्तनीयमायुः क्रमेणानुभवत्सु सत्सु यदेकस्य कस्यचिदायुः परिवर्त्तते तदा तस्य लोकैरकालमरणमिति व्यपदिश्यते, 'पढमो अकालमच्च' इत्यादिवत् तेनान्यदा अकाउमरणस्यापि सम्भवात्तत्तदानीं तन्निषेध इति न दोष इति । अथ कथं ते देवलोकेषूत्पद्यन्ते इत्याह-यतो देवलोको भवनपत्याद्याश्रयरूपस्तस्य तथाविधकालस्वभावात् तद्योग्यायुर्बन्धेन परिग्रहः - अङ्गीकारो येषां ते तथा देवलोकगामिन इत्यर्थः, एषां चैकोनपञ्चाशद्दिनावधि परि| पाउने केचिदेवमवस्थामाहुः - सप्तोत्तानशया लिहन्ति दिवसान् स्वाङ्गष्ठमार्यास्ततः, को रिङ्खन्ति पदैस्ततः कलगिरो यान्ति | स्वलद्भिस्ततः । स्थेयोभिश्च ततः कलागणभृतस्तारुण्य भोगोद्गताः, सप्ताहेन ततो भवन्ति सुद्दगादानेऽपि योग्यास्ततः ॥ १ ॥ अत्र व्याख्या-आर्याः सप्त दिवसान् - जन्मदिवसादिकान् यावत् उत्तानशयाः सन्तः स्वाङ्गुष्ठं लिहन्ति, ततो Fur Ele&Pay ~ 256 ~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy