SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ तृतीय उच्छ्वासः १९१ रुत्तंभितं उच्चैर्जातं उत्तरीयवास:-वैकक्षपटो यस्य स तथाविधः सन् ससम्भ्रमं-सादरं यथा स्यात्तथा आसनात्-विष्टरादुत्थाय कियन्त्यपि पदानि-पादन्यासान् अभिमुखं-सम्मुखं समेत्यआगत्य क्षितितले-भूपीठे मिलन् मौलिमण्डलं-मस्तकं यस्य स ईदृग्विधः प्रणाममकरोत् । मुनिरपि सदारुणान्तयापि सौम्यया दृशा विद्रुमप्रभाभिन्नया सुधासिन्धुतरङ्गमालयेव प्लावयन्नाशिषमवादीत् । मुनिरपि प्रणामानन्तरं आशिषमवादीत् । किं कुर्वन् ? सदा अरुण:-रक्तो अन्तःप्रान्तो यस्याः सा तया सौम्यया -रम्यया दृशा आप्लावयन्-प्रक्षालयन् । दृशा कयेव ? उत्प्रेक्ष्यते, विद्रुमप्रभया-प्रवालकान्त्या भिन्नया-छुरितया सुधासिन्धोः-क्षीराब्धेस्तरङ्गाणां मालया इव-पंक्त्येव रक्तान्तनेत्रत्वं शुभलक्षणं । अपिः-विरोधे । तत्पक्षे, स इति मुनिविशेषणं, या दारुणान्ता-रौद्रप्रान्ता भवति सा सौम्या कथं स्यात् ? दृशः सुधातरङ्गोपमानं, रक्तप्रान्तस्य प्रवालोपमानम् । ननु सास्यदेवता इत्यधिकृत्य सोमाद्यणिति विधानात् कथमिह सौम्यया ? इत्युच्यते सोमदेवता हि तृप्तिहेतुरतः सुन्दरेऽपि वस्तुभि तृप्तिहेतुत्वादुपचारात् सौम्यमित्युत्यते । तथा चामरसिंहः-"सौम्यं सुन्दरे सोमदैवते" [नानार्थवर्भ १६०] इति । "धारोष्णं तु पयोऽमृतम्" [मर्त्य० १९] इति शेषोक्तेः । तथा “पेयूषोऽभिनवं पयः" [३।६९] इत्यभिधानचिन्तामणिवाक्ये "पेयूषमपि पीयूषं" [मर्त्य० २८] इति शीलोञ्छोक्तेश्च तत्पर्यायस्य सुधेति पदस्याऽपि तयोरिव। क्षीरार्थता श्रीचण्डपालेन व्याकृता इत्यवसीयते । इतरथा सुधासिन्धोरिति शब्दस्य क्षीराब्धिपर्यायता दुर्घटेति ध्येयम् । आशिषमेवाह सिन्दूरस्पृहया स्पृशन्ति करिणां कुम्भस्थमाधोरणाः, भिल्ली पल्लवशङ्कया' विचिनुते सान्द्रद्रुमद्रोणिषु । कान्ताः कुकुमकाङ्क्षया करतले मृद्वन्ति लग्नं च य त्तत्तेजः प्रथमोद्भवं भ्रमकरं सौरं चिरं पातु वः ॥ ७ ॥ सिन्दूरेति । तत्प्रथमोद्भवं-प्रथमत एव सम्भूतं सौर-भास्करं तेजो वः-युष्मान् चिरंचिरकालं पातु-रक्षतु । किम्भूतम् ? भ्रमकरं-भ्रान्तिजनकं । तमेवाह-आधोरणा:-हस्तिपकाः करिणां-दन्तिनां कुम्भस्थं यत्तेजः सिन्दूराय-नागजाय या स्पृहा-वाञ्छा तया स्पृशन्ति १. सौम्यया नास्ति अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy