SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ १९२ दमयन्ती-कथा-चम्पू: आमृशन्ति, तेजसः सिन्दूरभ्रमात् स्पर्शनम् । तथा भिल्ली-शबरी सान्द्रा-निविडा या द्रुमद्रोणय:-तरुश्रेणयस्तासु पल्लवानां-किशलयानां या शङ्का-भ्रमस्तया यत्तेजो विचिनुतेआदत्ते, तेजस: पल्लवा अमी इति भ्रमादुच्चयनम् । "द्रोणिरिकारान्तः श्रेण्यामपि" [ ] इत्यनेकार्थवृत्तौ । तथा कान्ता:-कामिन्यः करतले-पाणितले लग्नं यत्तेजः कुङ्कमकांक्षया-वाल्हीक इव वाञ्छया मृद्वन्ति-म्रदयन्ति, इति नवरवितेजसो भ्रमोत्पादकत्वम् ।।७।। दत्ताशीश्च? प्रणामपर्यस्तकर्णपूरपल्लवपरामृष्टपादपद्मपांशुरवनिपालेन स्वयमादरेणोपनीतमुच्चकाञ्चनासनमध्यतिष्ठत् । एवं दत्ता आशीर्येन ईदृशो मुनिश्च अवनिपालेन-भीमेन स्वयं-आत्मना आदरेण उपनीतं-दत्तं उपढौकितं उच्चं काञ्चनासनं-हैमासनं अध्यतिष्ठत्-आश्रितवान् । किम्भूतो मुनिः ? प्रणामेन-नृपतिनमस्कारेण पर्यस्तः-पतितो यः कर्णपूरः-कर्णावतंसः स एव पल्लव:-वासः प्रान्तस्तेन परामृष्टः-अपनीतः पादपद्मयोः पांशुः-धूलियस्य स तथाविधः । यद्वा, कर्णपूरपल्लव:-अवतंसकिसलयं इति व्याख्येयम् । एतेन नृपतेरप्यर्च्यत्वं मुनेरावेदितम् । अथ नरपतिदत्ते प्राप्तसौन्दर्यनिर्यन्, मणिमहसि स तस्मिन्नासने सन्निविष्टः । रुचिररुचिसुमेरोः संगतः शृङ्गभागे, कमलज इव कान्ति काञ्चिदुच्चैर्बभार ॥ ८ ॥ अथेति । अथ-अनन्तरं नरपत्तिदत्ते-भीमोपढौकिते तस्मिन्-आसने सन्निविष्टः-स्थितः स-मुनि काञ्चिदपूर्वां उच्चैः-अतिशयेन कान्ति-शोभा बभार-दधे । किम्भूते आसने ? प्राप्त सौन्दर्यं येन तत्तथाविधं निर्यन्-निस्सरन् मणीनां मह:-तेजो यस्मात्त-त्तथाविधे। उत्प्रेक्ष्यते, रुचिरा-मनोज्ञा रुचि:-कान्तिर्यस्याऽसौ तथा विधो यः सुमेरुस्तस्य शृङ्गभीगे-शिखराग्रे सङ्गतःस्थितः कमलज इव-ब्रह्मेव । यथा ब्रह्मा मेरोः शिखरे स्थितः काञ्चिच्छोभा बिभर्ति तद्वा अयमपि । मुनेब्रह्मण उपमान, सिंहासनस्य च सुमेरोरुप-मानम् ॥ ८ ॥ दत्त्वार्घमर्हणीयाय तस्मै सोऽपि महीपतिः । स्वहस्तधौतयोर्भक्त्या ववन्दे पादयोर्जलम् ॥ ९ ॥ १-१. तथाऽयमपि अनू. । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004071
Book TitleDamyanti Katha Champu
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages776
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy