________________
श्रीजिनपञ्जरस्तोत्रम् । दक्षिणे मदनद्वेषी, वामपार्श्वे स्थितो जिनः। । अङ्ग-सन्धिषु सर्वज्ञः, परमेष्टी शिवङ्करः ॥ ८॥ पूर्वाशां च जिनो रक्षेदाग्नेयीं विजितेन्द्रियः। दक्षिणाशां परं ब्रह्म, नैऋती च त्रिकालवित् ॥९॥ पश्चिमाशां जगन्नाथो, वायव्यां परमेश्वरः। उत्तरां तीर्थकृत् सर्वामीशानेऽपि निरञ्जनः ॥ १० ॥ पातालं भगवानहन्नाकाशं पुरुषोत्तमः। रोहिणीप्रमुखा देव्यो, रक्षन्तु सकलं कुलम् ॥११॥ ऋषभो मस्तकं रक्षेदजितोऽपि विलोचने । सम्भवः कर्णयुगलेऽभिनन्दनस्तु नासिके ।। १२ ॥ ओष्ठौ श्रीसुमती रक्षेद्, दन्तान पद्मप्रभो विभुः। जिह्वां सुपार्श्वदेवोऽयं, तालु चन्द्रप्रभाभिधः ॥ १३ ॥ कण्ठं श्रीसुविधी रक्षेद् , हृदयं जिनशीतलः। श्रेयांसो बाहुयुगलं, वासुपूज्यः करद्वयम् ॥ १४॥ अङ्गुलीविमलो रक्षेदनन्तोऽसौ नखानपि । श्रीधर्मोऽप्युदरास्थीनि, श्रीशान्ति भिमण्डलम् ॥१५॥ श्रीकुन्थुर्गुह्यकं रक्षेदरो लोमकटीतटम् । मल्लिरूरुपृष्ठमंशं, पिण्डिकां मुनिसुव्रतः ॥१६॥ पादाङ्गुलीनमी रक्षेच्छ्रीनेमिश्चरणद्वयम् । श्रीपार्श्वनाथः सर्वाङ्ग, वर्धमानश्चिदात्मकम् ॥ १७ ॥ पृथिवीजलतेजस्कवाय्वाकाशमयं जगत् । रक्षेदशेषपापेभ्यो, वीतरागो निरञ्जनः ॥१८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org