SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ नवस्मरणादिसङ्ग्रहे राजद्वारे श्मशाने च सङ्ग्रामे शत्रुसङ्कटे । व्याघ्र-चौरा - sग्नि-सर्पादि-भूत-प्रेतभयाश्रिते ॥ १९ ॥ अकाले मरणे प्राप्ते, दारिद्यापत्समाश्रिते । अपुत्रत्वे महादुःखे, मूर्खत्वे रोगपीडिते ॥ २० ॥ डाकिनी - शाकिनीग्रस्ते, महाग्रहगणार्दिते । नगुत्ताऽध्ववैषम्ये, व्यसने चाऽऽपदि स्मरेत् ॥ २१ ॥ प्रातरेव समुत्थाय यः स्मरेज्जिनपञ्जरम् । तस्य किञ्चिद् भयं नास्ति, लभते सुखसम्पदः ॥ २२ ॥ जिनपञ्जरनामेदं यः स्मरेदनुवासरम् । कमलप्रभसूरीन्द्रश्रियं स लभते नरः ॥ २३ ॥ प्रातः समुत्थाय पठेत् कृतज्ञो, यः स्तोत्रमेतज्जिनपञ्जरस्य । आसादयेत् सः कमलप्रभाख्यो, लक्ष्मीं मनोवाञ्छितपूरणाय ॥ २४ ॥ श्रीरुद्रपल्लीय वरेण्यगच्छे, देवप्रभाचार्यपदाब्जहंसः । वादीन्द्रचूडामणिरेष जैनो, जीयादसौ श्रीकमलप्रभाख्यः ॥ २५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003287
Book TitleNavsmaranadisangraha
Original Sutra AuthorN/A
AuthorVicharshreeji, Damayantishreeji
PublisherNagindas Kevalshi Shah Ahmedabad
Publication Year1964
Total Pages258
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy