________________
३२
नवस्मरणादिसङ्कहे
महाज्वाला-मानवी-वैरोव्या-अच्छुप्ता-मानसी-महामानसी षोडश विद्यादेव्यो रक्षन्तु वो नित्यं स्वाहा ।
ॐ आचार्योपाध्यायप्रभृतिचातुर्वर्ण्यस्य श्रीश्रमणसङ्घस्य शान्तिर्भवतु तुष्टिर्भवतु पुष्टिर्भवतु।।
ॐ ग्रहाश्चन्द्र-सूर्या-ऽङ्गारक-बुध-बृहस्पति-शुक्र-शनैश्रर-राहु-केतुसहिताः सलोकपालाः सोम-यम-वरुणकुबेर वासवा-ऽऽदित्य-स्कन्द-विनायकोपेता ये चाऽन्ये. ऽपि ग्राम-नगर-क्षेत्रदेवतादयस्ते सर्वे प्रीयन्तां प्रीयन्तां, अक्षीणकोष-कोष्ठागारा नरपतयश्च भवन्तु स्वाहा ।
ॐ पुत्र-मित्र-भ्रातृ-कलत्र-सुहृत्-स्वजन-सम्बन्धि. बन्धुवर्गसहिता नित्यं चाऽऽमोदप्रमोदकारिणः, अस्मिश्व भूमण्डलायतननिवासिसाधु-साध्वी-श्रावक-श्रावि. काणां रोगोपसर्ग-व्याधि-दुःख-दुर्भिक्ष-दौमनस्योपशमनाय शान्तिभवतु। ___तुष्टि-पुष्टि-ऋद्धि-वृद्धि-माङ्गल्योत्सवाः सदा प्रादु. भूतानि पापानि शाम्यन्तु दुरितानि, शत्रवः पराङ्मुखा भवन्तु स्वाहा । ___ श्रीमते शान्तिनाथाय, नमः शान्तिविधायिने । त्रैलोक्यस्याऽमराधीशमुकुटाभ्यर्चिताप्रये ॥ १ ॥ शान्तिः शान्तिकरः श्रीमान् , शान्ति दिशतु से गुरुः। शान्तिरेव सदा तेषां येषां शान्तिर्गहे गृहे ॥
.
.
Jain Education International
Tona!
For Private & Personal Use Only
www.jainelibrary.org