________________
नवमं बृहच्छान्तिस्मरणम् ।
पृष्टरिष्ट-दुष्ट ग्रहगति दुःस्वप्न दुर्निमित्तादि । सम्पादितहितसम्पन्नामग्रहणं जयति शान्तेः ॥ ३ ॥ श्रीसङ्घ-जगज्जनपद- राजाधिप- राजसन्निवेशानाम् । गोष्ठिक - पुरमुख्याणां व्याहरणैर्व्याहरेच्छान्तिम् ॥ ४ ॥
श्रीश्रमणसङ्घस्य शान्तिर्भवतु, श्रीपौरजनस्य शान्तिर्भवतु, श्रीजनपदानां शान्तिर्भवतु, श्रीराजाधिपानां शान्तिर्भवतु, श्रीराजसन्निवेशानां शान्तिर्भवतु, श्रीगोष्टिकानां शान्तिर्भवतु, श्रीपौरमुख्याणां शान्तिभवतु, श्रीब्रह्मलोकस्य शान्तिर्भवतु, ँ स्वाहा ँ स्वाहा ॐ श्रीपार्श्वनाथाय स्वाहा ।
एषा शान्तिः प्रतिष्ठा - यात्रा - स्नात्राद्यवसानेषु शान्तिकलशं गृहीत्वा कुङ्कुम-चन्दन- कर्पूरा-गरुधूप-वासकुसुमाञ्जलिसमेतः स्नात्रचतुष्किकायां श्रीसङ्घसमेतः शुचिशुचिवपुः पुष्प - वस्त्र-चन्दना - ऽऽभरणालङ्कृतः पुष्पमालां कण्ठे कृत्वा शान्तिमुद्घोषयित्वा शान्तिपानीयं मस्तके दातव्यमिति ।
नृत्यन्ति नित्यं मणिपुष्पवर्ष,
सृजन्ति गायन्ति च मङ्गलानि । स्तोत्राणि गोत्राणि पठन्ति मन्त्रान्, कल्याण भाजो हि जिनाभिषेके ॥ १ ॥ शिवमस्तु सर्वजगतः परहितनिरता भवन्तु भूतगणाः । दोषाः प्रयान्तु नाशं, सर्वत्र सुखी भवतु लोकः ॥ २ ॥
Jain Education International
३३
For Private & Personal Use Only
www.jainelibrary.org