SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ षट्प्राभूते ~~..NAYAVARANAAR णा अंते चतुर्थ शिक्षाव्रतमन्ते मरणकाले सल्लेखना कायकषायतनूकरणमिति तात्पर्य । एवं सावयधम्म संजमचरणं उदेसियं सयलं ।। सुद्धं संजमचरणं जइधम्मं णिकलं वोच्छे ॥ २६ ॥ एवं श्रावकधर्म संयमचरणं उपदेशितं सकलं । शुद्धं संयमचरणं यतिधर्म निष्कलं वक्ष्ये ॥ एवं सावयधम्मं संजमचरणं उदेसियं सयलं एवममुना प्रकारेण श्रावकधर्मलक्षणं संयमचरणं चारित्राचारः, उपदेशितं भवन्तः कुर्वन्त्विति प्रतिपादितं, सकलं समग्रं परिपूर्ण, किंचिद्विशेषरूपं तु न प्रतिपादितमित्यर्थः । उक्तं च-- बिल्वालाबुफले च त्रिभुवनविजयी शिलीध्रकं न सेवते । आ पंचदशतिथिभ्यः पयोऽपि वत्सोद्भवात्समारभ्य ॥१॥ तथा च-- दृतिप्रायेषु पानीयं स्नेहं च कुतपादिषु । व्रतस्थो वर्जयेन्नित्यं योषितश्चावतोचिताः॥१॥ त्रिभुवनविजयीति भंगा तदुपलक्षणं सूक्ष्मकणत्वचाहिफेनादीनां । शिलीध्रकं गोमयच्छत्रं केतकीपुष्पदण्डिका च। चर्मतुलादिधृतं गुडादिकं नादेयं । अभ्युक्षणाचमनादिकं च विशेषशास्त्रोक्तं ज्ञातव्यं । सुद्धं संजमचरणं जइधम्मं णिक्कलं वोच्छे शुद्धं परिपूर्णविशुद्धिसहितं यतिधर्म निष्कलं निष्कलंकं वक्ष्ये कथयिष्यामि । इति वचनाच्छावकधर्मस्य यतिधर्मस्य च तारतम्येनोत्कृष्टता सूचिता भवतीति ज्ञातव्यम् । पंचिंदियसंवरणं पंचवया पंचविसकिरियासु । पंचसमिदि तयगुत्ती संजमचरणं निरायारं ॥ २७ ॥ पञ्चेन्द्रियसंवरणं पञ्चव्रताः पञ्चविंशतिक्रियासु । पञ्चसमितयः तिस्रो गुप्तयः संयमचरणं निरागारम् ॥ Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy