SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ चारित्रप्राभृतं । ४५ दिसिविदिसिमाण पढमं अणत्थदंडस्स वज्जणं विदियं । भोगोपभोगपरिमा इयमेवगुणव्वया तिणि ॥२४॥ दिग्विदिग्मानं प्रथम-अनर्थदण्डस्य वर्जनं द्वितीयम् । भोगोपभोगपरिमाणं-इदमेव गुणव्रतानि त्रीणि ॥ दिसिविदिसिमाण पढमं दिग्विदिङ्मानं परिमाणं प्रथमं गुणवतं ज्ञातव्यं । अणत्थदंडस्स वज्जणं विदियं अनर्थदण्डस्य वर्जनं द्वितीयं गुणवतं भवति । भोगोपभोगपरिमा भोगोपभोगपरिमाणं तृतीयं गुणव्रतं भवति । भोजनादिकं भोगः । वस्त्रस्त्रीप्रमुखमुपभोग इत्यर्थः। इयमेव गुणव्वया तिणि इदमेवाचरणं त्रीणि गुणव्रतानि भवन्ति । सामाइयं च पढमं विदियं च तहेव पोसहं भणियं । तइयं अतिहिपुज्जं चउत्थ सल्लेहणा अंते ॥२५॥ सामायिकं च प्रथमं द्वितीयं च तथैव प्रोषधो भणितः। तृतीयमतिथिपूज्यं चतुर्थ सल्लेखना अन्ते ॥ समाइयं च पढमं सामायिकं च प्रथमं शिक्षाव्रतं । चैत्यपंचगुरुभक्तिसमाधिभक्तिलक्षणं दिनं प्रति एकवारं द्विवारं त्रिवार वा व्रतप्रति मायां सामायिकं भवति । यत्तु सामायिकप्रतिमायां सामायिकं प्रोक्तं तत्रीन् वारान् निश्चयेन करणीयमिति ज्ञातव्यं । विदियं च तहेव पोसहं भणियं द्वितीयं च तथैव प्रोषधोपवासं शिक्षाव्रतं भणितं प्रतिपादितं अष्टम्यां चतुर्दश्यां च । तदपि त्रिविधं, चतुर्विधाहारपरिवर्जनमुत्कृष्ट, जलसहितं मध्यमं, आचाम्लं जघन्यं प्रोषधोपवासं भवति यथाशक्ति कर्तव्यं । तइयं च अतिहिपुज्जं तृतीयं चातिथिपूज्यं, न विद्यते तिथिः प्रतिपदादिका यस्य सोऽतिथिः । अथवा संयमलाभार्थमतति गच्छति उदंडचर्या करोतीत्यतिथिर्यतिः स पूज्यो नवगुणसप्तगुणसमन्वितेन श्रावकेण यस्मिन् शिक्षाव्रते तदतिथिपूज्यं । चउत्थ सल्लेह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy