SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ चारित्रप्राभृतं । ४७ पंचिंदियसंवरणं पंचानामिन्द्रियाणां संवरणं कूर्मवत्संकोचनं । पंचवया पंचव्रताः । व्रतशब्दस्य पुन्नपुंसकत्वमुक्तमस्ति तेनात्र पुंस्त्वं सूचितं । तांस्तु विवरिष्यति । पंचविंसकिरियासु पंचविंशतो क्रियासु सतीषु । ते पंचव्रता भवन्तीति भावः। पंचसमिदि पंचसमितयो भवन्ति । तयगुत्ती तिस्रो गुप्तयः । संजमचरणं निरायारं निरागारमनगार चारित्राचारो भवतीति द्वारगाथा वेदितव्या । अमणुण्णे य मणुण्णे सजीवदव्वे अजीवदव्वे य । ण करेइ रायदोसे पंचिंदियसंवरो भणिओ ॥२८॥ अमनोज्ञे च मनोज्ञे सजीवद्रव्ये अजीवद्रव्ये च । __न करोति रागद्वेषौ पंचेन्द्रियसंवरो भणितः॥ अमणुण्णे य अमनोज्ञे चासुन्दरे च । मणुण्णे मनोज्ञे मनोहरे। सजीवदव्वे इष्टवनितादौ । अजीवदव्वे य अजीवद्रव्ये चाचेतनद्रव्ये अशनवसनकनककाचादिके । ण करेदि रायदोसे न करोति रागद्वेषौ । मनोज्ञे रागं न करोति। अमनोज्ञे द्वेषं न करोति । पंचिंदियसंवरो भणिओ पंचेन्द्रियसंवरो भणितः प्रतिपादितः।। अथ पंचवया इत्येतत्पदविवरणार्थमाहहिंसाविरइ अहिंसा असच्चविरई अदत्तविरई य । तुरियं अबंभविरई पंचम संगम्मि विरई य ॥ २९ ॥ हिंसाविरतिरहिंसा असत्यविरतिरदत्तविरतिश्च । तुरीयमब्रम्हविरतिः पञ्चमं संगे विरतिश्च ॥ हिंसाविरइ अहिंसा हिंसाविरतिरहिंसा प्राणातिपातविरतिर्भवति । असच्चविरई असत्यविरतिद्धितीयं महाव्रतं भवति । अदत्तविरई य अदत्तविरतिश्चादत्ताद्विरतिरदत्तविरतिस्तृतीयं महावतं भवति । तुरियं अबंभविरई अब्रह्मविरतिमैथुनाद्विरमणं तुरियं-चतुर्थ महाव्रतं ज्ञातव्यं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003149
Book TitleShatprabhutadi Sangraha
Original Sutra AuthorKundkundacharya
AuthorPannalal Soni
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages494
LanguageSanskrit
ClassificationBook_Devnagari & Spiritual
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy