________________
युक्त्यनुशासनं। शरीरेन्द्रियविषयसंज्ञा असंभवत्यः प्रतिनियम्यते ? शरीराधारंभकभूतानामेव समुदाये सति संभवंति न पुनः पिठरादिभूतसमुदय इति न चोद्यं तेषां शक्यन्तरव्यक्तेः । यथैव हि मयांगानां पिष्टोदकादीनां समागमे मदहेतोः शक्त्यंतरस्य व्यक्तिस्तथा पृथिव्यादिभूतानां ज्ञानहेतोः शक्त्यंतरस्य व्यक्तिः स्यात् । तर्हि शक्त्यंतरव्यक्तिप्रतिनियतेष्वेव भूतेषु समुदितेषु संभवन्ती दैवनिमित्ता स्यात्, दृष्ट कारणव्यभिचारदिति च न शंकनीयं देवस्य तत्सृष्टिनिमित्तस्य कादाचिकतया दैवान्तरात्सृष्टिप्रसंगात् । यदि पुनर्देवव्यक्तिः कादाचित्तयपि स्वाभाविकीति न तस्या दैवात्सृष्टिः परस्मादन्यथानवस्थाप्रसंगादिति मतं तदा शक्त्यंतरव्यक्तिरध्यदैवसृष्टिः सिद्धा सुदूरमपि गत्वा स्वभावस्यावश्यमाश्रमणीयत्वात् । शक्यंतरं हि शक्तिविशेषोऽन्तरशब्दस्य विशेषवाचिनः प्रयोगात् ततो यथा अद्यांगानां समागमे कालविशेषविशिष्टे पात्रादिविशेषविशिष्टे चाऽविकलेऽनुपहते च मदजननशक्तिविशेषव्यक्तिरदैवसृष्टिईष्टा मद्यांगानामसाधारणानां साधारणानां च समागमे सति स्वभावत एव भावात्, तथा ज्ञानहेतुशक्तिविशेषव्यक्तिरप्यदैवसृष्टिरेव ज्ञानांगानां भूतानामसाधारणानां च समागमे सति स्वभावत एव भावात्, ज्ञानजननसमर्थस्यैव कललादिशरीरश्यासाधारणस्य शरीरसंज्ञत्ववचनात्तथा ज्ञानक्रियायां साधकसमस्यैवेन्द्रियस्यासाधारणस्येन्द्रियसंज्ञत्वसिद्धेविषयस्य च ज्ञानक्रियाश्रयस्यैवासाधारणस्य विषयसंज्ञत्वोपपोर्न सर्वे श
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org