________________
टीकासहितं ।
मृदवः प्रलब्धाः ॥३५॥ टीका-पद्यांगानि पिष्टोदकगुडधातक्यादीनि तेष्विक तद्धेतुभूतानि पृथिव्यप्तेजोवायुतत्वानि तेषां समागमः समुदाय स्तस्मिन्सति ज्ञश्चेतन: परिणामविशेषः सुखदुखहर्षविषादादिविवर्त्तात्मको गर्भादिमरणपर्यन्तः प्रादुर्भवत्याविर्भवति वा कार्यवादाभिव्यक्तिवादायिणामिति भावः । पृथिव्यतेनोवायुरिति तत्त्वानि तत्समुदये शरीरेन्द्रियविषयसंज्ञास्तेभ्यश्चैतन्यमित्यत्र सूत्रे कार्यवादिभिरविद्धकर्मादिभिरुत्पद्यते इति क्रियाध्याहारात, तथाऽभिव्यक्तिवादिभिः पुरंदरादिभिरभिव्यज्यत इति क्रियाध्याहारात् । भूतसमागमे ज्ञ इति भूतसमु. दायस्थ परंपरया कारणत्वपभिव्यंजकत्वं वा प्रत्येयं । साक्षाच्छरीरेन्द्रिगविषयसंज्ञेभ्य एव ज्ञस्योत्पादाभिव्यक्तिवचनात् अहं चक्षुषा रूपं जानामीति ज्ञातुः प्रतीतेस्तेषामन्यतमस्याप्यपाये स्थाप्रतीतनिक्रियायाः कर्तकरणकर्मनान्तरीयकत्वात् । तत्र शरीरसंज्ञस्य कर्तृत्वाच्चैतन्यविशिष्टकायव्यतिरेकेणापरस्यास्मनस्तत्त्वांतरस्य कुतश्चित्प्रमाणादप्रतिपत्तेश्चक्षुरादींद्रियसंज्ञस्य करणत्वाच्चैतन्यविशिष्टन्द्रियव्यतिरेकेण करणस्याऽसंप्रत्ययात् । विषयसंस्म वा कर्मत्वात्तस्य ज्ञेयतयाऽवस्थितत्वात् । न च मृतशरीरेन्द्रियविषयेभ्यश्चैतन्यस्यानुदयदर्शवतेभ्यश्चैतन्यमिति दुःसाधनं, चैतन्यविशिष्टानामेव जीवशरीरेन्द्रियविषयसंज्ञानां संज्ञाननिबंधनत्ववचनात् , कुतः पुनर्भूतानां सर्वेषामपि समागमे
१ क पुस्तके 'अबिद्धकर्मादिभिः' नास्त्ययंपाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org